2023-06-14 15:16:04 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

उच्छ्वासः ] पदचन्द्रिका-भूषणा- लघुदीपिकासहितम् । १२३
चातिवैचक्षण्यान्मया समसृज्यत । तत्संबन्धाञ्च्च वस्त्राभरण-

प्रेषणादिना तद्भार्यायां प्रतिदिनमन्ववर्ते । तदसावशङ्किष्ट [^१]निर्वृकृष्टा-
शयः कितवः । तेन च कुपितेन हृतं तच्चर्मरत्नमाभरणस-
मुद्ञ्श्च तस्याः । स तु भूयः स्तेयाय भ्रमन्नगृह्यत नागरिक-
पुरुषैः । आपन्नेन चामुनानुसृत्य रुदत्यै रागमञ्जरी [^२]परिचारिकायै
पूर्वप्रणयानुवर्तिना तद्भाण्डनिधानोद्दे -शः कथितः । ममापि चर्म-
रत्नमुपायोपापक्रान्तो यदि प्रयच्छेदिह देवपादैः प्रसादः कार्यः'
इति । तथा 'निवेदितश्च नरपतिरसुभिर्मामवियोज्योपच्छन्दनैरेव
स्वं ते दापयितुं प्रयतिष्यते । तन्नः पथ्यम्' इति । श्रुत्वैव च
त्वदनुभावप्रत्ययादनतित्रस्नुना तेन तत्तथैव संपादितम् । अथाहं
त्वदभिज्ञानप्रत्यायिताया रागमञ्जर्याः सकाशाद्यथेप्सितानि [^३]वसूनि
लभमाना राजदुहितुरम्बालिकाया धात्रीं माङ्गलिकां त्वदादिष्टेन
 

 
पदचन्द्रिका ।
 

 
रागमञ्जर्याः । समुद्रकः संपुटकः । तथैवामरः । सोऽक्षनिपुणः । स्तेयाय चौर्याय ।
नागरिकपुरुषैः । कारापतिपुरुषैरित्यर्थः । आपन्नेनापत्प्राप्तेन । रुदत्यै रोदन-
परायै । तस्या यद्भाण्डं भूषणम् । 'भाण्डं भूषणमात्रेऽपि भाण्डं मूलवणिग्धने ।
नदीमात्रे तुरङ्गाणां भूषणे भाजनेऽपि च' इति विश्वः । तस्य निधानोद्देशः

स्थापनप्रदेशः । उपायैरुपकाक्रान्तो वशीकृतः । 'उपक्रमो वशीकारे समारम्भे
चिकित्सने' इति वैजयन्ती । उपच्छन्दनैः उपसान्त्वनैः । 'सान्त्वनोपच्छन्दने च
समावनुनयेऽपि च' इति केशवः । स्वं चर्मरत्नम् । ते तुभ्यम् । नोऽस्माकम् ।
पथ्यमनुगुणम् । त्वदनुभाव प्रत्ययात्त्वत्प्रभावज्ञानात् । अनतित्रबुस्नुना अतिशयितत्रा-
सरहितेन । 'त्रसिगृधि–' (३।१।१४०) इति क्नुप्रत्ययः । तेन धनमित्रेण । अथेति
 

 
भूषणा ।
 

 
द्कः संपुटकः । एवमेवामरः । उपकाक्रान्तो वशीकृतः । 'उपक्रमो वशीकारे
समारम्मेभे चिकित्सने' इति वैजयन्ती । उपच्छन्दनमुपसान्त्वनम् । 'सान्त्वनो-
पच्छन्दने च समावनुनये' इति केशवः । अनुभावप्रत्ययात्प्रभावज्ञानात् ।
 

 
लघुदीपिका ।
 

 
द्कः संपुटकः । उपक्रान्तो वशीकृतः । 'उपक्रमो वशीकारे समारम्भे चिकि-
त्सने' इति वैजयन्ती । उपच्छन्दतमुपसान्त्वनम् ॥ 'सान्त्वनोपच्छन्दने च
समावनुनयेऽपि च' इति केशवः । अनुभावप्रत्ययात्प्रभावज्ञानात् । प्रत्या-
पाठा०-

 
[^
]G. 'निकृष्टाशयतया'.
[^
]G. 'परिचारिकायै शृगालिकायै'.
[^
]G. 'वस्तुतूनि'.