2023-05-18 02:10:24 by ambuda-bot
This page has not been fully proofread.
उच्छ्वासः ] पदचन्द्रिका-भूषणा- लघुदीपिकासहितम् । १२३
चातिवैचक्षण्यान्मया समसृज्यत । तत्संबन्धाञ्च वस्त्राभरण-
प्रेषणादिना तद्भार्या प्रतिदिनमन्ववर्ते । तदसावशङ्किष्ट निर्वृष्टा-
शयः कितवः । तेन च कुपितेन हृतं तच्चर्मरत्नमाभरणस-
मुद्रकञ्च तस्याः । स तु भूयः स्तेयाय भ्रमन्नगृह्यत नागरिक-
पुरुषैः । आपन्नेन चामुनानुसृत्य रुदत्यै रागमञ्जरीपरिचारिकायै
पूर्वप्रणयानुवर्तिना तद्भाण्डनिधानोदेशः कथितः । ममापि चर्म-
रत्नमुपायोपान्तो यदि प्रयच्छेदिह देवपादैः प्रसादः कार्यः'
इति । तथा 'निवेदितश्च नरपतिरसुभिर्मामवियोज्योपच्छन्दनैरेव
स्वं ते दापयितुं प्रयतिष्यते । तन्नः पथ्यम्' इति । श्रुत्वैव च
त्वदनुभावप्रत्ययादनतित्रनुना तेन तत्तथैव संपादितम् । अथाहं
त्वदभिज्ञानप्रत्यायिताया रागमञ्जर्याः सकाशाद्यथेप्सितानि वसूनि
लभमाना राजदुहितुरम्बालिकाया धात्रीं माङ्गलिकां त्वदादिष्टेन
पदचन्द्रिका ।
रागमञ्जर्याः । समुद्रकः संपुटकः । तथैवामरः । सोऽक्षनिपुणः । स्तेयाय चौर्याय ।
नागरिकपुरुषैः । कारापतिपुरुषैरित्यर्थः । आपनेनापत्प्राप्तेन । रुदत्यै रोदन-
परायै । तस्या यद्भाण्डं भूषणम् । 'भाण्डं भूषणमात्रेऽपि भाडं मूलवणिग्धने ।
नदीमात्रे तुरगाणां भूषणे भाजनेऽपि च ॥ इति विश्वः । तस्य निधानोद्देशः
स्थापनप्रदेशः । उपायैरुपकान्तो वशीकृतः । 'उपक्रमो वशीकारे समारम्भे
चिकित्सने' इति वैजयन्ती । उपच्छन्दनैः उपसान्त्वनैः । 'सान्त्वनोपच्छन्दने च
समावनुनयेऽपि च' इति केशवः । स्वं चर्मरत्नम् । ते तुभ्यम् । नोऽस्माकम् ।
पथ्यमनुगुणम् । त्वदनुभाव प्रत्ययात्त्वत्प्रभावज्ञानात् । अनतित्रबुना अतिशयितत्रा-
सरहितेन । 'त्रसिगृधि–' (३।१।१४०) इति नुप्रत्ययः । तेन धनमित्रेण । अथेति ।
भूषणा ।
द्रकः संपुटकः । एवमेवामरः । उपकान्तो वशीकृतः । 'उपक्रमो वशीकारे
समारम्मे चिकित्सने इति वैजयन्ती । उपच्छन्दनमुपसान्त्वनम् । 'सान्त्वनो-
पच्छन्दने च समावनुनये' इति केशवः । अनुभावप्रत्ययात्प्रभावज्ञानात् ।
लघुदीपिका ।
द्रकः संपुटकः । उपक्रान्तो वशीकृतः । 'उपक्रमो वशीकारे समारम्भे चिकि-
त्सने इति वैजयन्ती । उपच्छन्दतमुपसान्त्वनम् ॥ 'सान्त्वनोपच्छन्दने च
समावनुनयेऽपि च' इति केशवः । अनुभावप्रत्ययात्प्रभावज्ञानात् । प्रत्या-
पाठा०-१ 'निकृष्टाशयतया'. २ 'परिचारिकायै शृगालिकायै'. ३ 'वस्तुनि'.