This page has not been fully proofread.

१२२
 
दशकुमारचरितम् ।
 
[ द्वितीयः
 
मपि यातनानामनुभवेयम् । इयं मे साधीयसी संघा' इति । तेनैव
क्रमेण वर्तमाने सान्त्वनतर्जनप्राये प्रतिदिनमनुयोगव्यतिकरेऽनुगु-
णान्नपानला भात्कतिपयैरेवाहोभिर्विरोपितत्रणः प्रकृतिस्थोऽहमासम् ।
अथ कदाचिदच्युताम्बरपीतातपत्विषि क्षयिणि वासरे हृष्ट-
वर्णा शृगालिकोज्ज्वलेन वेषेणोपसृत्य दूरस्थानुचरा मामुपलि-
घ्याब्रवीत् – 'आर्य, दिष्ट्या वर्धसे । फलिता तव सुनीतिः ।
तथा त्वयादिश्ये तथा धनमित्रमेत्याब्रवम् –– 'आर्य, तवैवमा-
पन्नः सुहृदित्युवाच – 'अहमद्य वेशसंसर्गसुलभात्पानदोषाद्वद्धः ।
त्वया पुनरविशङ्कमद्यैव राजा विज्ञापनीयः– 'देव, देवप्रसादा-
देव पुरापि तद्जिनरत्नमर्थपतिमुषितमासादितम् । अथ तु
भर्ता रागमञ्जर्याः कश्चिदक्षधूर्तः कलासु कवित्वेषु लोकवार्तासु
 
पदचन्द्रिका ।
 
इति भागुरिः । प्रत्याशां पुनःप्राप्तीच्छाम् । 'प्रत्याशा पुनराप्तीच्छा' इति वैज-
यन्ती । अनुभवेयमनुभविष्यामि । साधीयसी दृढतरा । संधा प्रतिज्ञा । 'संधा
स्थितौ प्रतिज्ञायाम्' इति विश्वः । अनुयोगव्यतिकरे प्रश्नप्रकारे । 'संपर्के च व्यति-
करः प्रकारव्रातयोरपि' इत्यजयः । अनुगुणाञ्चपानलाभादनुकूलाशनपानप्राप्तेः ।
विरोपितत्रण उपशान्तक्षतः । 'विरोपित उपशान्तश्चिकित्सितः' इति बोपालितः ।
अथेति । अच्युतो विष्णुस्तस्याम्बरं वस्त्रं तद्वत्पीता पिशङ्गातपत्खिड्योतप्रभा
यस्येति । 'प्रकाशो द्योत आतपः' इत्यमरः । क्षयिणि क्षीणे । वासरे दिवसे ।
उपश्लिष्य संनिकृष्य । आदिश्य आदिष्टम् । आपन आपत्तिं प्राप्तः । 'आपन्न
आपत्प्राप्तः स्यात्' इत्यमरः ॥
 
अथ त्विति । अक्षधूर्तोऽक्षनिपुणः । समसृज्यत । संगतोऽभूदित्यर्थः ।
असावक्षधूर्तः । निकृष्टाशयः क्षुद्रान्तःकरणः । कुपितेन क्रुद्धेन । तस्या
 
भूषणा ।
 
प्रत्याशां पुनःप्राप्तीच्छाम् । प्रत्याशा पुनराप्तीच्छा' इति वैजयन्ती । साधीयसी
दृढतरा ।संधा प्रतिज्ञा । 'संधा प्रतिज्ञा मर्यादा' इत्यमरः । अनुयोगव्यतिकरे
प्रश्नप्रकारे । 'संपर्क च व्यतिकरः प्रकारव्रातयोरपि' इत्यजयः । विरोपितव्रणः
उपशान्तक्षतः । 'विरोपित उपशान्तश्चिकित्सितः' इति बोपालितश्चापि ।
दिष्ट्येत्यव्ययमानन्दे । 'दिष्ट्या समुपजोषं चेत्यानन्दे' इत्यमरः । उपश्लिष्य
संनिकृष्य । अन्ववर्ते स्वसंबन्धिवर्गवत्सादरमाचरामीति फलितोऽर्थः । सम-
लघुदीपिका ।
 
च्छा' इति वैजयन्ती । साधीयसी दृढतरा । अनुयोगव्यतिकरे प्रश्नप्रकारे । 'संपर्क
च व्यतिकरः प्रकारत्रातयोरपि इत्यजयः । विरोपितव्रणः उपशान्तक्षतः ।
'विरोपित उपशान्तश्चिकित्सितः' इति बोपालितः । उपश्लिष्य संनिकृष्य । समु
पाठा० -१ 'आपञ्चसुहृदामुना चैवमादिष्टोऽसि'.