2023-06-14 14:44:10 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

उच्छ्वासः ] पदचन्द्रिका-भूषणा-लघुदीपिकासहितम् ।
 
१२१
 
अथोत्तरेधुद्युरागत्य दृप्ततरः सुभगमानी सुन्दरंमन्यः पितुर-

त्ययादचिराधिष्ठिताधिकारस्तारुण्य मदादनतिपक्कःव: कान्तको नाम

[^१]
नागरिक: किंचिदिव भर्त्सयित्वा मां समभ्यधत्त – 'न चेद्धनमि-

त्रस्याजिनरत्नं प्रतिप्रयच्छसि, न चेद्वा नागरिकेभ्यञ्श्चोरितकानि

प्रत्यर्पयसि, द्रक्ष्यसि पारमष्टादशानां कारणानामन्ते च मृत्यु-

मुखम्' इति । मया तु स्मयमानेनाभिहितम् – 'सौम्य, यद्यपि

दद्यामाजन्मनो मुषितं धनं न त्वर्थपतिदारापहारिण: शत्रोर्मे मित्र-

मुखस्य धनमित्रस्य चर्मरत्न प्रत्याशां पूरयेयम् । अदत्त्वैव तद्युत-

 
पदचन्द्रिका ।
 

 
नियोगात् । चारकं बन्धनालयम् ॥
 
1
 

अथेति । उत्तरेधुःद्यु: परदिवसे । 'सद्यः परुत्-' (५।३।२२ ) इति

निपातः । दृप्ततरो गर्विततरः । 'गर्वितो दृप्त उद्धतः' इति वैजयन्ती ।
सुभगमानी सुभगमात्मानं मन्यमानः । 'सर्वोन्नतत्वं सौभाग्यं तद्वान्सुभग उच्यते'
इति दिवाकरः । सुन्दरंमन्यः सौन्दर्याभिमानी । पितुरत्ययात् पितृनाशात् । अचि-

राधिष्ठिताधिकारोऽल्पकालप्राप्ताधिकारः । अनतिपक्कोवो- नतिपरिगणतः । नागरिकः
कारापतिः । 'कारापतिर्नागरिकः' इति वैजयन्ती । समभ्यधत्तोक्तवान् । न
चेदिति । प्रतिप्रयच्छसि प्रत्यर्पयसि । नागरिकेभ्यो नगरवासिलोकेभ्यः । कारणानां

यातनानाम् । 'कारणा तु यातना तीव्रवेदना' इत्यमरः । अन्ते यातनावसाने ।
स्मयमानेन स्मितमुखेन । आजन्मनः । जन्म मर्यादीकृत्येत्यर्थः । मे मम शत्रोर्वै-
रिणः । मित्रमुखस्य मित्रच्छद्मनः । 'मुखं तु वदने मुख्ये ताम्रे छद्मनि वा पुमान्'

 
भूषणा ।
 

 
दृ
प्ततरो गर्वितः । 'गर्वितो दृप्त उद्धतः' इति वैजयन्ती । सुभगमानी सुभगमा-
त्मानं मन्यमानः । 'सर्वोन्नतत्वं सौभाग्यं तद्वान्सुभग उच्यते' इति दिवाकरः ।
अचिराधिष्ठितोऽभिनवावलम्बितः । तारुण्यं यौवनम् । कारापतिर्नागरिकः ।
कारणानां यातनानाम् । 'कारणा तु यातना तीव्रवेदना' इत्यमरः । मित्रमुखस्य
मित्रव्याजस्य । 'मुखं तु वदने मुख्ये ताम्रे छद्मनि वा पुमान्' इति भागुरिः ।

 
लघुदीपिका ।
 
L
 

 
दृप्ततरो गर्विततरः । 'गर्वितो दृप्त उद्धतः' इति वैजयन्ती । सुभगमानी सुभग-
मात्मानं मन्यमानः । 'सर्वोन्नतत्वं सौभाग्यं तद्वान्सुभग उच्यते' इति दिवाकरः ।

अचिराधिष्ठितोऽभिनवावलम्बितः । 'तारुण्यं यौवनं समे' । कारापतिर्नागरिकः
कारणानां यातनानाम् । 'कारणा यातनावृत्त्योः' । मित्रमुखस्य मित्रव्याजस्य
' मुखं तु वने मुख्ये ताम्रे छद्मनि वा पुमान्' इति भागरिः । 'प्रत्याशा पुनराप्ती-
पाठा०-

 
[^
]G. 'कारापतिः',
 

११० कु०