2023-05-18 02:10:23 by ambuda-bot
This page has not been fully proofread.
१२०
दशकुमारचरितम् ।
[द्वितीयः
वैरास्पदं धनमित्रः । स्मरंस्तु चिरकृतां ते परिचर्यामनुग्रहीतुमर्हसि
दास रागमञ्जरीम् । आकल्पसारो हि रूपाजीवाजनः ।
तब्रूहि व निहितमस्या भूषणम्' इति पादयोरपतत् । ततो दयमान
इवाहमब्रवम् – 'भवतु, मृत्युहस्तवर्तिनः किं ममामुष्या वैरानुब-
न्धेन' इति । तद्भुवन्निव कर्ण एवैनामशिक्षयम् – 'एवमेवं प्रति-
पत्तव्यम्' इति । सा तु प्रतिपन्नार्थेव – 'जीव चिरम्, प्रसीदन्तु ते
देवताः, देवोऽप्यङ्गराजः पौरुषप्रीतो मोचयतु त्वाम्, एतेऽपि भद्रमु-
खास्तव दयन्ताम्' इति क्षणादपासरत् । आनीये चाईमारक्षिक-
,
नायकस्य शासनाच्चारकम्
।
पदचन्द्रिका ।
भिमर्शी त्वत्स्त्रीगामी । वैरास्पदं वैरस्थानम् । स्मरन्निति । चिरकृतां बहुका-
लकृताम् । त इति । तवेत्यर्थः । आकल्पसारो भूषणसारः । 'आकल्पवेषौ नेप-
थ्यम्' इत्यमरः । रूपाजीवा वेश्या । 'वारस्त्री गणिका वेश्या रूपाजीवा' इत्यमरः ।
क निहितं क्क स्थापितम् । दयतेऽसौ दयमानः कृपयन्निव । भवतु
श्रयताम् । संवादे वर्तमानमिदमव्ययम् । 'भवत्वन्तरसंवादे निर्दोषस्मरणेऽपि च '
इत्यजयः । मृत्युहस्तवर्तिनो यमकरगतस्य 1 अमुष्या रागमञ्जर्याः ।
वैरानुबन्धेन वैरसंबन्धेन । एनां शृगालिकाम् । अशिक्षयं शिक्षितवान् ।
प्रतिपत्तव्यं कर्तव्यम् । सा शृगालिका । प्रतिपन्नार्थेव प्राप्तार्थव । प्रसीदन्तु ।
प्रसन्ना भवन्त्वित्यर्थः । पौरुषप्रीतः पुरुषार्थसंतुष्टः । एतेऽपि पुरोवर्तिनः ।
दयन्तां दयां कुर्वन्तु । रक्षन्त्वित्यर्थः । 'दय दानगतिहिंसारक्षणेषु' इति धातोः ।
तवेति । वामित्यर्थः । 'अधीगर्थदयेशां - ' ( २१३१५२ ) इति कर्मणि षष्ठी ।
अपासरदपसृता । आरक्षिका रक्षणकारस्तेषां नायकस्य कोष्टपालस्य शासना-
भूषणा ।
-
अनुबन्धः अनुबन्धोऽनुवृत्तिः । स्मरन्त्विति । परिचर्यामुपासनां स्मरन्ननु-
ग्रहीतुमित्यन्वयः । आकल्पो वेषः । 'आकल्पवेषौ नेपथ्यम्' इत्यमरः । रूपा
जीवाजनो वेश्याजनः । 'वारस्त्री गणिका वेश्या रूपाजीवा' इत्यमरः । तव
दयन्तां त्वां रक्षन्तु । 'दय दानगतिहिंसारक्षणेषु' । 'अधीगर्थदयेशां
कर्मणि' (२।३।५२) इति कर्मणि षष्ठी । 'आरक्षकास्तु बन्दिनः' इति । वैजयन्ती ।
लघुदीपिका ।
वृद्धे । उद्घटितं सूचनम् । 'सूचनमुद्घटनं बोधिः' इत्यजयः । भवतु श्रूयताम् । संवादे
वर्तमानमिदमव्ययम् । 'भवत्वन्तरसंवादे निर्दोषस्मरणेऽपि वा' इत्यजयः । अनुब-
न्धोऽवृत्तिः । तव दयन्तां त्वां रक्षन्तु । 'दय दानगतिहिंसारक्षणेषु' । 'अधीगर्थदयेशां
कर्मणि' (२।३।५२ ) इति कर्मणि षष्ठी । 'आरक्षकास्तु बन्दिनः' इति वैजयन्ती ।
पाठा०-१ 'आरक्षक'.