2023-06-14 14:23:10 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.


श्वो नियतं [^१]निग्रहीष्येते । तदीयमिह प्रतिपत्तिर्ययानुष्ठीयमानया
मन्नियोगतस्तौ परित्रास्येते । मां च कदाचिदनर्थादितस्तारयिष्यत'
इति कमप्युपायमात्मनैव निर्णीय शृगालिकामगादिषम् -
'अपेहि जरतिके, या तामर्थलुब्धां दुग्धगणिकां रागमञ्जरिकाम-
जिनरत्नमत्तेन शत्रुणा मे मित्रच्छद्मना धनमित्रेण संगमितवती,
सा हतासि । तस्य पापस्य चर्मरत्नमोषाद्दुहितुश्च ते साराभरणा-
पहारादहमद्य निःशल्यमुत्सृजेयं जीवितम्' इति । सा पुनरुद्ध-
टितज्ञा परमधूर्ता साश्रुगद्गदमुदञ्जलिस्तान्पुरुषान्सप्रणाममासा-
दितवती । सामपूर्वं मम पुरस्तादयाचत – 'भद्रकाः, प्रतीक्ष्यतां
कंचित्कालं यावदस्मादस्मदीयं सर्वं मुषितमर्थजातमवगच्छेयम्'
इति । तथेति तैः प्रतिपन्ने पुनर्मत्समीपमासाद्य 'सौम्य, क्षमस्वास्य
दासीजनस्यैकमपराधम् । अस्तु स कामं [^२]त्वत्कलत्राभिमर्शी
 
पदचन्द्रिका ।
 
स्वीकारे शापे पत्न्यां परिच्छदे' इति महीपः । मदेनसा मत्पापेन । 'कलुषं वृजिनैनोऽघम्' इत्यमरः । तौ रागमञ्जरीधनमित्रौ । प्रोर्णुतावभिभूतौ । श्व आगामिनि दिवसे । निग्रहीष्येते । निगृहीतौ भविष्यत इत्यर्थः । इयं वक्ष्यमाणा । प्रतिपत्तिः कर्तव्यम् ।
यया प्रतिपत्त्या । नियोगतो नियमात् । परित्रास्येते परिरक्षितौ भविष्यतः । कदाचित्पक्षान्तरेण । अगादिषमवदम् । जरतिका वृद्धा । अपेहि । गच्छेत्यर्थः । यातामिति । मित्रच्छद्मना कपटमित्रेण । संगमितवती संबन्धं कारितवती । तस्य पापस्य धनमित्रस्य । साराभरणानामपहारात्स्तेयात् । सा शृगालिका । उद्घटितज्ञा सूचितज्ञा । 'सूचनमुद्घटनं बोधिः' इत्यजयः । उदञ्जलिर्बद्धाञ्जलिः । अयाचत प्रार्थितवती । भद्रकाः कल्याणरूपाः । मुषितं चोरितम् । अवगच्छेयं ज्ञास्ये । तैः
पुरुषैः प्रतिपन्नेऽङ्गीकृते । क्षमस्व सहस्वेत्यर्थः । स धनमित्रः । त्वत्कलत्रा-
 
भूषणा ।
 
रिग्रहत्वं मत्पत्नीत्वम् । 'पत्नीपरिजनादानमूलशापाः परिग्रहाः' इत्यमरः । मदेनसा मत्पापेन । संप्रोर्णुतावभिभूतौ । 'ऊर्णुञ् आच्छादने' । इहास्मिन्नवसरे ।
 
लघुदीपिका ।
 
मत्पत्नीत्वम् । 'पत्नीपरिजनादानमूलशापाः परिग्रहाः' । मदेनसा मत्पापेन । प्रोर्णुतावभिभूतौ । 'ऊर्णुञ् आच्छादने' । इहास्मिन्नवसरे । अपेहि जरतिके, अपगच्छ
 
[^१]G. 'निग्राहयिष्ये'.
[^२]G. 'त्वम्'.