2023-06-14 14:20:03 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

उच्छ्वासः
श्वो नियतं [^१
] पदचन्द्रिका-भूषणा- लघुदीपिकासहितम् । ११९
 
वो
नियतं निर्ब्ग्रहीष्येते । तदीयमिह प्रतिपत्तिर्ययानुष्ठीयमानया

मन्नियोगतस्तौ परित्रास्येते । मां च कदाचिदनर्थादितस्तारयिष्यत'

इति कमप्युपायमात्मनैव निर्णीय शृगालिकामगादिषम् -
 

'अपेहि जरतिके, या तामर्थलुब्धां दुग्धगणिकां रागमञ्जरिकाम-

जिनरत्नमत्तेन शत्रुणा मे मित्रच्छद्मना धनमित्रेण संगमितवती,

सा हतासि । तस्य पापस्य चर्मरत्नमोषाहुद्दुहितुश्च ते साराभरणा-

पहारादहमद्य निःशल्यमुत्सृजेयं जीवितम्' इति । सा पुनरुद्ध-

टितज्ञा परमधूर्ता साश्रुगद्गदमुदञ्जलिस्तान्पुरुषान्सप्रणाममासा-

दितवती । सामपूर्वं मम पुरस्तादयाचत – 'भद्रकाः, प्रतीक्ष्यतां

कंचित्कालं यावदस्मादस्मदीयं सर्वं मुषितमर्थजातमवगच्छेयम्'

इति । तथेति तैः प्रतिपन्ने पुनर्मत्समीपमासाद्य 'सौम्य, क्षमस्वास्य

दासीजनस्यैकमपराधम् । अस्तु स कामं त्वे[^२]त्वत्कलत्राभिमर्शी
 

 
पदचन्द्रिका ।
 

 
स्वीकारे शापे पत्न्यां परिच्छदे' इति महीपः । मदेनसा मत्पापेन । 'कलुषं वृजिनैनो-
ऽघम्' इत्यमरः । तौ रागमञ्जरीधनमित्रौ । प्रोर्णुतावभिभूतौ । श्व आगामिनि दिवसे ।
निग्रहीष्येते । निगृहीतौ भविष्यत इत्यर्थः । इयं वक्ष्यमाणा । प्रतिपत्तिः कर्तव्यम् ।

यया प्रतिपत्त्या । नियोगतो नियमात् । परित्रास्येते परिरक्षितौ भविष्यतः । कदा-
चित्पक्षान्तरेण । अगादिषमवदम् । जरतिका वृद्धा । अपेहि । गच्छेत्यर्थः । याता-
मिति । मित्रच्छद्मना कपटमित्रेण । संगमितवती संबन्धं कारितवती । तस्य
पापस्य धनमित्रस्य । साराभरणानामपहारात्स्तेयात् । सा शृगालिका । उद्घटितज्ञा
सूचितज्ञा । 'सूचनमुद्टनं बोधिः' इत्यजयः । उदञ्जलिर्बद्धाञ्जलिः । अयाचत
प्रार्थितवती । भद्रकाः कल्याणरूपाः । मुषितं चोरितम् । अवगच्छेयं ज्ञास्ये । तैः

पुरुषैः प्रतिपन्नेऽङ्गीकृते । क्षमस्व सहस्वेत्यर्थः । स धनमित्रः । त्वत्कलनात्रा-

 
भूषणा ।
 

 
रिग्रहत्वं मत्पत्नीत्वम् । 'पत्नीपरिजनादानमूलशापाः परिग्रहाः' इत्यमरः । मदे-
नसा मत्पापेन । संप्रोर्णुतावभिभूतौ । 'ऊर्जुज्णुञ् आच्छादने' । इहास्मिन्नवसरे ।
 

 
लघुदीपिका ।
 

 
मत्पत्नीत्वम् । 'पत्नीपरिजनादानमूलशापाः परिग्रहाः' । मदेनसा मलात्पापेन ।
प्रोर्णुतावभिभृभूतौ । 'ऊर्णुञ् आच्छादने' । इहास्मिन्नवसरे । अपेहि जरतिके, अपगच्छ
 
पाठा० -

 
[^
]G. 'निग्राहयिष्ये'.
[^
]G. 'त्वम्'.