This page has not been fully proofread.

[ द्वितीयः
 
११८
 
दशकुमारचरितम् ।
 
त्वद्भवनं पूरयेयम्' इति
 
प्रव्येथितप्रियतमाप्रणामाञ्जलिशपथशताति-
वर्ती मत्तवारण इव रभसच्छिन्न शृङ्खलः कयापि धांच्या शृगालि-
काख्ययानुगम्यमानो नातिपरिकरोऽसिद्वितीयो रंहसा परेणोद-
चलम् । अभिपततोऽपि नागरिकपुरुषानशङ्कमेव विगृह्य तस्कर
इति तैरभिहन्यमानोऽपि नातिकुपितः क्रीडन्निव मदावसन्नहस्त-
प्रतितेन निखिंशेन द्वित्रानेव हत्वावघूर्णमानताम्रदृष्टिरपतम् ।
अनन्तरमार्तरवान्विसृजन्ती शृगालिका ममाभ्याशमगमत् ।
अबध्ये चाहमरिभिः । आपदा तु मदापहारिण्या सद्य एव बोधित-
स्तत्क्षणोपजातया प्रतिभया व्यचीचरम् – 'अहो, ममेयं मोह-
मूला महत्यापदापतिता । प्रसृततरं च सख्यं मया सह धन-
मित्रस्य, मत्परिग्रहत्वं च रागमञ्जर्याः । मदेनसा च तो प्रोर्णुता
 
HAP
 
पदचन्द्रिका ।
 

 
निशीथिनी रात्रिः' इत्यमरः । निर्धनीकृत्य । निद्रव्यं कृत्वेत्यर्थः । शपथशतमतिक्रम्य
वर्तत इति तथा । मत्तवारण इव मत्तगज इव । रभसेन वेगेन छिन्ना नोटिता शङ्खला
येनेति तथा । धात्र्युपमाता । 'धात्री स्यादुपमातापि क्षितिरप्यामलक्यपि इत्य-
मरः । परिकरः परिवारः । रंहसा वेगेन । उदचलम् । उच्चलित इत्यर्थः । अभि-
पततः संमुखमागच्छतः । अशङ्कं निःशकम् । विगृह्य युद्धं कृत्वा । तस्कर इति
चोर इति । अभिहन्यमानस्ताड्यमानः । मदेनावसन्नः शिथिलो यो हस्तस्तस्मात्प
तितेन । निस्त्रिंशेन खङ्गेन । 'नृशंसखनौ निखिशौ इत्यमरः । अवघूर्णमाना
विह्वला । अनन्तरमिति । अभ्याशं समीपम् । अबध्ये । बद्ध इत्यर्थः । मदापहा-

रिणा मदनाशकर्ज्या । प्रतिभया प्रज्ञया । 'प्रज्ञा नवनवोल्लासशालिनी प्रतिभा मता
इति भरतः । व्यचीचरं विचारितवान् । मोहसूलाऽज्ञानमूला ।महत्यतिशयिता
आपतितागता । प्रसृततरं ख्याततरम् । मत्परिग्रहत्वं मत्पत्नीत्वम् । 'परिग्रहस्तु
 
भूषणा ।
 
चितम्' इति वैजयन्ती । प्रवर्तनमनुष्ठानम् । व्यथितप्रियतमेति । अनेन मधुपानं
कृतम्, अतोऽयमुन्मत्त इत्येतदर्थ तया शपथादिकं कृतमिति भावः । अभिपतत
इति संमुखं पतता । विगृह्यापि नातिकुपित इत्यन्वयः । निस्त्रिंशः खङ्गः । 'कर-
वालनिस्त्रिंशकृपाणखड्डाः' इति हेमचन्द्रः । व्यचीचरं विचारं कृतवान् । मत्प-
लघुदीपिका ।
 
न्याय्ये' इति वैजयन्ती । प्रवर्तनमनुष्ठानम् । 'निस्त्रिंशः क्रूरखड्गयोः' । मत्परिग्रहवं
 
पाठा०
- १ 'व्यथित'. २ 'धूर्तया धाग्या'. ३ 'संप्रोर्णुतौ'.