This page has been fully proofread once and needs a second look.

श्रीः ।
श्रीमहाकविदण्डिविरचितं
दशकुमारचरितम् ।
पूर्वोत्तरपीठिकासहितम् ।
पूर्वपीठिकायां प्रथमोच्छ्वासः ।
 
ब्रह्माण्डच्छत्रदण्डः शतधृतिभवनाम्भोरुहो नालदण्डः
क्षोणीनौकूपदण्डः क्षरदमरसरित्पट्टिकाकेतुदण्डः ।
ज्योतिश्चक्राक्षदण्डस्त्रिभुवनविजयस्तम्भदण्डोऽङ्घ्रिदण्डः
श्रे[^१]यस्त्रैविक्रमस्ते वितरतु विबुधद्वेषिणां कालदण्डः ॥
 
अस्ति समस्तनगरीनिकषायमाणा शश्वद्गण्यपण्यविस्तारितमणि-
 
पददीपिका ।
 
ब्रह्माण्डेति । ब्रह्माण्डमेव छत्रं तस्य दण्ड आधारयष्टिः । ब्रह्माण्डं
भुवनम् । शतं धृतयो यस्य स शतधृतिर्ब्रह्मा 'शंभुः शतधृतिः स्रष्टा इति हैमः । तस्य भवनमुत्पत्तिस्थानं वासस्थानं वा तद्भूतस्याम्भोरुहोऽम्भसि रोहतीति व्युत्पत्त्या कमलस्य । हान्तोऽयं शब्दः । क्षोणी पृथ्वी तद्रूपा या नौस्तरिस्तस्याः
कूपदण्डो गुणवृक्षकः । 'डोलकाठी' इति भाषायाम् । 'क्षोणी ज्या काश्यपी क्षितिः','स्त्रियां नौस्तरणिस्तरिः', 'कूपको गुणवृक्षकः' इति च सर्वत्रामरः । क्षरन्ती प्रस्रवन्ती या अमरसरिद्वियद्गङ्गा सैव पट्टिका तस्याः केतुदण्डः । ज्योतिश्चक्रं ज्योतिःसमूहस्तस्याक्षदण्डो नाभिक्षेप्यं काष्ठम् । 'आंस' इति भाषायाम् । त्रयाणां
भुवनानां समाहारस्त्रिभुवनं तस्य विजयस्तद्दर्शकः स्तम्भदण्डः । अङ्घ्रिश्चरणो दण्ड इवेत्युपमितसमासः । श्रेयो निःश्रेयसं सुकृतं पुण्यं वा । 'श्रेयो निःश्रेयसामृतम्','स्याद्धर्ममस्त्रियां पुण्यश्रेयसी सुकृतं वृषः' इत्युभयत्राप्यमरः । अतिशयेन प्रश-
स्यम् । ईयसुनि 'प्रशस्यस्य - ' ( ५।३।६० ) इति श्रादेशः । त्रैविक्रमस्त्रिविक्रमस्यायम् । 'अङ्घ्रिदण्डः' इत्यस्य विशेषणम् । वितरतु ददातु । विबुधद्वेषिणां दनुजानाम् । कालदण्डः कृतान्तः । मृत्युरिति यावत् । 'कृतान्तानेहसोः कालः 'इत्यमरः । 'कालो मृत्यौ महाकाले समये यमकृष्णयोः' इति मेदिनी च ॥
अस्तीति । निकषः कषपाषाणः तद्वदाचरति निकषायते । निकषायतेऽसौ निकषायमाणा । 'शाणस्तु निकषः कषः' इत्यमरः। पण्यानि विक्रेयवस्तूनि ।
 

 
[^१] 'श्रेयस्त्रैविक्रमो वः'