This page has not been fully proofread.

श्रीः ।
श्रीमहाकविदण्डिविरचितं
 
दशकुमारचरितम् ।
 
पूर्वोत्तरपीठिकासहितम् ।
 
पूर्वपीठिकायां प्रथमोच्छ्वासः ।
 
ब्रह्माण्डच्छत्रदण्डः शतधृतिभवनाम्भोरुहो नालदण्डः
क्षोणीनौकूपदण्डः क्षरदमरसरित्पट्टिकाकेतुदण्डः ।
ज्योतिश्चक्राक्षदुण्डत्रिभुवनविजयस्तम्भदण्डोऽभिदण्डः
श्रेयस्वैविक्रमस्ते वितरतु विबुधद्वेषिणां कालदण्डः ॥
 
तुम्हारा
 
अस्ति समस्तनगरीनिकषायमाणा शश्वद्गण्यपण्यविस्तारितमणि-
ऊसश
 

 
pendapa
 
>
 
-
 
पददीपिका ।
 
ब्रह्माण्डेति । ब्रह्माण्डमेव छत्रं तस्य दण्ड आधारयष्टिः । ब्रह्माण्डं
भुवनम् । शतं धृतो यस्य स शतधृतिर्ब्रह्मा 'शंभुः शतधृतिः स्रष्टा इति
हैमः । तस्य भवनमुत्पत्तिस्थानं वासस्थानं वा तद्भूतस्याम्भोरुहोऽम्भसि रोहतीति
व्युत्पत्त्या कमलस्य । हान्तोऽयं शब्दः । क्षोणी पृथ्वी तद्रूपा या नौस्तरिस्तस्याः
कूपदण्डो गुणवृक्षकः । 'डोलकाठी' इति भाषायाम् । 'क्षोणी ज्या काश्यपी क्षितिः',
'स्त्रियां नौस्तरणिस्तरिः', 'कूपको गुणवृक्षकः' इति च सर्वनामरः । क्षरन्ती
प्रस्रवन्ती या अमरसरिद्वियद्गगा सैव पट्टिका तस्याः केतुदण्डः । ज्योतिश्चक्रं
ज्योतिःसमूहस्तस्याक्षदण्डो नाभिक्षेप्यं काष्ठम् । 'आंस' इति भाषायाम् । त्रयाणां
भुवनानां समाहारस्त्रिभुवनं तस्य विजयस्तद्दर्शकः स्तम्भदण्डः । अनिश्चरणो दण्ड
इवेत्युपमितसमासः । श्रेयो निःश्रेयसं सुकृतं पुण्यं वा । 'श्रेयो निःश्रेयसामृतम्',
'स्याद्धर्ममस्त्रियां पुण्यश्रेयसी सुकृतं वृषः' इत्युभयत्राप्यमरः । अतिशयेन प्रश-
स्यम् । ईयसुनि 'प्रशस्यस्य - ' ( ५।३।६० ) इति श्रादेशः । त्रैविक्रमस्त्रिविक्रम-
स्यायम् । 'अङ्घ्रिदण्डः' इत्यस्य विशेषणम् । वितरतु ददातु । विबुधद्वेषिणां
दनुजानाम् । कालदण्डः कृतान्तः । भृत्युरिति यावत् । 'कृतान्तानेहसोः कालः '
इत्यमरः । 'कालो मृत्यौ महाकाले समये यमकृष्णयोः' इति मेदिनी च ॥
 
अस्तीति । निकषः कषपाषाणः तद्वदाचरति निकषायते । निकषायतेऽसौ
निकषायमाणा । 'शाणस्तु निकषः कषः' इत्यमरः । पण्यानि विक्रेयवस्तूनि ।
 
पाठा० - १ 'श्रेयस्वैविक्रमो वः'.