2023-06-13 17:26:44 by Lakshmainarayana achar
This page has been fully proofread once and needs a second look.
नान्वगृह्यत । धनमित्रश्चाहनि गुणिनि कुलपालिकामुपायंस्त ।
तदेवं सिद्धसंकल्पो रागमञ्जरीगृहं हेमरत्नपूर्णमकरवम् ।
अस्मिंश्च पुरे लुब्धसमृद्धवर्गस्तथा मुषितो यथा कपालपाणिः
स्वैरेव धनैर्मद्विश्राणितैः समृद्धीकृतस्यार्थिवर्गस्य गृहेषु भिक्षार्थम-
भ्रमत् । न ह्यलमतिनिपुणोऽपि पुरुषो नियतिलिखितां लेखामति-
क्रमितुम् । यतोऽहमेकदा रागमञ्जर्याः प्रणयकोपप्रशमनाय सानुनयं [^१]पायितायाः पुनःपुनः प्रणयसमर्पितमुखमधुगण्डूषमास्वादमास्वादं मदेनास्पृश्ये । शीलं हि मदोन्मादयोरमार्गेणा[^२]प्युचितकर्मस्वेव प्रवर्तनम् । यदहमुपोढमदः 'नगरमिद[^३]मेकयैव शर्वर्या निर्धनीकृत्य
पदचन्द्रिका ।
तयापविद्धं दत्तं सर्वस्वं ययेति तथा । अभिनोदितेन प्रेरितेन । धनमित्रो गुणिन्यहनि । गुणवद्दिवस इत्यर्थः । उपायंस्त परिणीतवान् । सिद्धसंकल्पोऽहमपहारवर्मा । अकरवं कृतवानस्मि । अस्मिन्निति । लुब्धसमृद्धवर्गो लुब्धाश्च ते समृद्धाश्च तेषां वर्गः समूहः । कपालं खर्परं पाणौ यस्येति तथा । स्वैरेव धनैरात्मी-
यैरेव धनैः । मद्विश्राणितैर्मद्दत्तैः । अभ्रमत् । भ्रमति स्मेत्यर्थः । अतिनिपुणोऽप्यतिकुशलोऽपि । नियतिरदृष्टम् । 'भाग्यं स्त्री नियतिर्विधिः' इत्यमरः । यत इति । एकदैकस्मिन्काले । 'एकादाकिनिच्च -' (५।३।५२) इति साधुः । प्रणयकोपः प्रीतिकलहस्तत्प्रशमनाय तन्नाशाय । पायितायाः पानं कारितायाः । मुखमधु मुखमद्यं तद्गण्डूषं पीत्वोज्झितम् । 'पीतशेषं तु गण्डूषम्' इति हलायुधः । आस्वादमास्वदम् । आस्वाद्यास्वाद्येत्यर्थः । णमुल् । अस्पृश्ये स्पृष्टवानस्मि । शीलं स्वभावः । उचितकर्मस्वभ्यस्तकर्मसु । 'अभ्यस्तेऽप्युचिते न्याय्यम्' इति वैजयन्ती । प्रवर्तनमनुष्ठानम् । यदहमिति । उपोढमदोऽधिकमदः । शर्वर्या रात्र्या । 'अथ शर्वरी । निशा
भूषणा ।
हेतौ' इत्यमरः । पायितायाः पानविषयं कारितायाः । गण्डूषं मुखे पीत्वोज्झितम् । 'पीत्वोज्झितं तु गण्डूषम्' इति हलायुधः । अहनि गुणिनि मुहूर्तादिगुणयुक्ते अहन्युपायंस्त । कुलपालिकाया विवाहं कृतवानित्यर्थः । शीलं स्वभावः । 'शीलं स्वभावे सद्वृत्ते' इत्यमरः । उपचितकर्मस्वभ्यस्तकर्मसु । 'न्याय्येऽभ्यस्तेऽप्युप-
लघुदीपिका ।
यतः । तत इत्यर्थः । 'यत्तद्यतस्ततो हेतौ' । गण्डूषं पीतशिष्टजलम् । 'पीतशेषं तु गण्डूषम्' इति हलायुधः । उचितकर्मस्वभ्यस्तकर्मसु । 'अभ्यस्तेऽप्युचितं
[^१]G. 'पाययितायाः'.
[^२]G. 'उपचित'.
[^३]G. 'इदमनयैकया'.