2023-06-13 17:22:59 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

उच्छ्वासः ] पदचन्द्रिका-भूषणा- लघुदीपिकासहितम् । ११७
नान्वगृह्यत । धनमित्रञ्श्चाहनि गुणिनि कुलपालिकामुपायंस्त ।

तदेवं सिद्धसंकल्पो रागमञ्जरीगृहं हेमरत्नपूर्णमकरवम् ।
 

 
अस्मिंश्च पुरे लुब्धसमृद्धवर्गस्तथा मुषितो यथा कपालपाणिः

स्वैरेव धनैर्मद्विश्राणितैः समृद्धीकृतस्यार्थिवर्गस्य गृहेषु भिक्षार्थम-

भ्रमत् । न ह्यलमतिनिपुणोऽपि पुरुषो नियतिलिखितां लेखामति-

क्र
मितुम् । यतोऽहमेकदा रागमञ्जर्याः प्रणयकोपप्रशमनाय सानुनयं
पां
[^१]पायितायाः पुनःपुनः प्रणयसमर्पितमुखमधुगण्डूषमास्वादमास्वादं
मदे॒
मदेनास्पृश्ये । शीलं हि मदोन्मादयोर मार्गेणायुं[^२]प्युचितकर्मस्वेव प्रव-
र्तनम् । यद्हमुपोढमदः 'नगरमिद[^३]मेकयैव शर्वर्या निर्धनीकृत्य
 

 
पदचन्द्रिका ।
 

 
तयापविद्धं दत्तं सर्वस्वं ययेति तथा । अभिनोदितेन प्रेरितेन । धनमित्रो गुणि-
न्यहनि । गुणवद्दिवस इत्यर्थः । उपायंस्त परिणीतवान् । सिद्धसंकल्पोऽहमपहार-
वर्मा । अकरवं कृतवानस्मि । अस्मिन्निति । लुब्धसमृद्धवर्गोंगो लुब्धाश्च ते समृ-
द्धाश्च तेषां वर्गः समूहः । कपालं खर्परं पाणौ यस्येति तथा । स्खैवैरेव धनैरात्मी-

यैरेव धनैः । मद्विश्राणितैर्मद्दत्तैः । अभ्रमत् । भ्रमति स्मेत्यर्थः । अतिनिपुणोऽप्य.
तिकुशलोऽपि । नियतिरदृष्टम् । 'भाग्यं स्त्री नियतिर्विधिः' इत्यमरः । यत इति ।
एकदैकस्मिन्काले । 'एकादाकिनिञ्च्च -' (५।३।५२) इति साधुः । प्रणयकोपः प्रीतिकलह-
स्तत्प्रशमनाय तन्नाशाय । पायितायाः पानं कारितायाः । मुखमधु मुखमद्यं तद्गण्डूषं
पीखोत्वोज्झितम् । 'पीतशेषं तु गण्डूषम्' इति हलायुधः । आखास्वादमाखास्वदम् । आखा-
स्वाद्याखास्वाद्येत्यर्थः । णमुल् । अस्पृश्ये स्पृष्टवानस्मि । शीलं स्वभावः । उचितकर्मस्व
भ्यस्तकर्मसु । 'अभ्यस्तेऽप्युचिते न्याय्यम्' इति वैजयन्ती । प्रवर्तनमनुष्ठानम् ।
यदहमिति । उपोढमदोऽधिकमदः । शर्वर्या राज्त्र्या । 'अथ शर्वरी । निशा
 

 
W
 

 
भूषणा ।
 

 
हेतौ' इत्यमरः । पायितायाः पानविषयं कारितायाः । गण्डूषं मुखे पीलोत्वोज्झि-
तम् । 'पीत्वोज्झितं तु गण्डूषम्' इति हलायुधः । अहनि गुणिनि मुहूर्तादिगुणयुक्ते
अहन्युपायंस्त । कुलपालिकाया विवाहं कृतवानित्यर्थः । शीलं स्वभावः । 'शीलं
स्वभावे सद्वृत्ते' इत्यमरः । उपचितकर्मस्वभ्यस्तकर्मसु । 'न्याय्येऽभ्यस्तेऽप्युप-

 
लघुदीपिका ।
 

 
यतः । तत इत्यर्थः । 'यत्तद्यतस्ततो हेतौ' । गण्डूषं पीतशिष्टजलम् । 'पीतशेषं
तु गण्डूषम्' इति हलायुधः । उचितकर्मस्भ्यस्तकर्मसु । 'अभ्यस्तेऽप्युचितं
पाठा० -

 
[^
]G. 'पाययितायाः'.
[^
]G. 'उपचित'.
[^
]G. 'इदमनयैकया'.