2023-05-18 02:10:22 by ambuda-bot
This page has not been fully proofread.
दशकुमारचरितम् ।
[ द्वितीयः
M
कुटुम्बमवसीदेत् । अर्थपतौ च तदपयशो रूढम् । अङ्गपुरप्रसिद्धं
च तस्य कीनाशस्यास्माभिः संगतम् । अमुनैव तदस्मभ्यं दत्तमि-
त्यपदिश्य वरमात्मा गोपायितुम्' इति मामभ्युपगमय्य राजकुल-
भगमताम् । राज्ञानुयुक्ते च 'नैष न्यायो वेशकुलस्य यद्दातुरप-
देशः । न ह्यर्थैर्न्यायार्जितैरेव पुरुषा वेशमुपतिष्ठन्ति' इत्यसकृदति-
प्रणुद्य कर्णनासाच्छेदोपक्षेपभीषिताभ्यां दग्धबन्धकीभ्यां स
एव तपस्वी तस्करत्वेनार्थपतिरग्राह्यत । कुपितेन च राज्ञा तस्य
प्राणेषूद्यतो दण्डः । प्राञ्जलिना धनमित्रेणैव प्रत्यषिध्यत – 'आर्य,
मौर्यदत्त एष वरो वणिजाम् । ईदृशेष्वॅपराधेष्वसुभिरवियोगः ।
यदि कुपितोऽसि हृतसर्वस्वो निर्वासनीयः पाप एषः' इति ।
तन्मूला च धनमित्रस्य कीर्तिरप्रथत । अप्रीयत च भर्ता । पट-
चरच्छेदशेषोऽर्थप तिरर्थमत्तः सर्वपौरजनसमक्षं निरवास्यत ।
तस्यैव द्रव्याणां तु केनचिद्वयवेन सा वराकी काममञ्जरी चर्म-
रत्नमृगतृष्णिकापविद्धसर्वस्वा सानुकम्पं धनमित्राभिनोदितेन भूपे-
११६
पदचन्द्रिका ।
भवद्विषये । आगतिरागमनहेतुत्वम् । अपदेश्या । कथनीयेत्यर्थः । अवसीदेन्नश्येत् ।
तदपयशस्तञ्चर्मरत्नचौर्यापयशः । रूढं ख्यातम् । संगतं मैत्री । अमुनैवार्थपतिनैव
अनुयुक्ते । पृष्टे सतीत्यर्थः । वेशकुलस्य वेश्याजनस्य । दातुरपदेशो दातुर्न नामग्रह-
णम् । न्यायार्जितैर्न्यायप्राप्तैः । असकृद्वारंवारम् । अतिप्रणुद्य त्यक्त्वा । 'प्ररुद्य' इति
पाठः । कर्णनासस्य च्छेदस्तस्योपक्षेपः प्रस्तावस्तद्भीषिताभ्याम् । कुपितेनेति ।
अत्यषिध्यत प्रत्यवार्यत । मौर्यो राजनीतिकर्ता । असुभिः प्राणैः । अवियोगो
वियोगाभावः । हृतसर्वखो हृतद्रव्यः । निर्वासनीयो बहिष्कार्यः । तन्मूला
तत्प्राणरक्षणमूला। अप्रथत । ख्याता बभूवेत्यर्थः । अप्रीयतेति । अप्रीयत ।
प्रीतोऽभूदित्यर्थः । पटञ्चरच्छेदशेषो जीर्णवस्त्रखण्डावशेषः । 'पटच्चरं जीर्णवस्त्रम्'
इत्यमरः । तस्यैवेति । तस्यार्थपतेः अवयवेनांशेन । मृगतृष्णिका मरीचिका,
भूषणा ।
पहवें' इति वैजयन्ती । अपदेश्या कथनीया । मामुपगमय्य । स्वीकार्येत्यर्थः ।
उपक्षेपः प्रस्तावः । 'पटच्चरं जीर्णवस्त्रम्' । यतः । यस्माद्धेतोरित्यर्थः । 'यत्तद्यतस्ततो
लघुदीपिका ।
इति वैजयन्ती । अपदेश्या कथनीया । उपक्षेपः प्रस्तावः । पटञ्चरं जीर्णवस्त्रम् ।
पाठा० - १ 'मामुपगमथ्य'. २ 'अपराधेषु नास्त्यसुभिरभियोगः'.