This page has not been fully proofread.

उच्छ्वासः ] पदचन्द्रिका-भूषणा- लघुदीपिकासहितम् । ११५
मिथो व्यज्ञापयत् – 'देव, येयं गणिका काममञ्जरी लोभोत्कर्षा-
लोभमञ्जरीति लोकोपक्रोशपात्रमासीत्, साद्य मुसलोलूखलान्यपि
निरपेक्षं त्यजति । तन्मन्ये मञ्चर्मरत्नलाभं हेतुम् । तस्य खलु
कल्पस्तादृशः । वणिग्भ्यो वारमुख्याभ्यश्च दुग्धे नान्येभ्य इति हि
तद्गता प्रतीतिः । अतोऽमुष्यामस्ति मे शङ्का' इति । सा सद्य एवं
राज्ञा सह जनन्या समाहूयत । व्यथितवर्णेनेव मयोपहरे
कथितम् – 'नूनमार्ये, सर्वस्वत्यागादतिप्रकाशादाशङ्कनीयचर्मरत्न-
लाभा तदनुयोगायाङ्गराजेन समाहूयसे । भूयोभूयश्च निर्बद्धया
त्वया नियतमस्मि तदागतित्वेनाहमपदेश्यः । ततश्च मे भावी
चित्रवधः । मृते च मयि न जीविष्यत्येव ते भगिनी । त्वं च
निःस्वीभूता । चर्मरत्नं च घनमित्रमेव प्रतिभजिष्यति । तदियमाप-
त्समन्ततोऽनर्थानुबन्धिंनी । तत्किमत्र प्रतिविधेयम् ?' इति । तया
तजनन्या चाश्रूणि विसृज्योक्तम् – 'अस्त्येवैतदस्मद्वालिश्यान्नि-
भिन्नप्रायं रहस्यम् । राज्ञञ्च निर्बन्धाहश्चितुर्निहुयापि नियत-
मागतिरपदेश्यैव चोरितस्य त्वयि । त्वयि त्वपदिष्टे सर्वमस्म-
-
 
पदचन्द्रिका ।
 
पात्रम् । लोकनिन्दापात्रमित्यर्थः । तस्य मञ्चर्मरत्नस्य । कल्पः प्रकारः । प्रतीतिः
ख्यातिः । उपह्वर एकान्ते । व्यथितवर्णेनेवेतीवकारेण कृत्रिमव्यथात्वं सूचितम् ।
नूनमिति । अतिप्रकाशादतिप्रसिद्धेः । चर्मरत्नलाभे । विषयसप्तमीयम् । तदनुयो-
गाय तत्प्रश्नाय । 'प्रश्नोऽनुयोगः पृच्छा च' इत्यमरः । निर्बद्धया आग्रहपृष्टया । तदा-
गतिवेन चर्मरत्नप्राप्तिहेतुत्वेन । अपदेश्यः कथनीयः । तत इति । भावी भविता ।
निःस्त्रीभूता दरिद्रीभूता । तत्तस्मात् । समन्ततः सर्वतः । अनर्थानुबन्धिन्यनर्थका-
रिणी । अत्रास्मिन्नर्थे । प्रतिविधेयं प्रतिकर्तव्यम् । बालिशस्य भावो बालिश्यं मूर्खत्वम् ।
'मूर्खवैधेयबालिशाः' इत्यमरः । निहुत्य गोपयित्वा । चोरितस्य पदार्थस्य । त्वयि
भूषणा ।
 
इत्यमरः । निर्बद्धया संकटं प्राप्तयेति फलितोऽर्थः । 'द्विस्त्रिश्चतुर् – ' ( ८।३।४३ )
इति सुजन्तः पाठः । द्विस्त्रिश्चतुर्वारमित्यर्थः । नित्य गोपयित्वा । 'निहवः स्याद'
लघुदीपिका ।
 
न्तमुद्धानमधिश्रयणी चुल्लिरन्तिका' । नित्य गोपयित्वा । 'निह्नवः स्यादपहवे-
2
 
पाठा०-१ 'लाभहेतुस्तस्याः'. २ 'बन्धिन महत्यापतिता', ३ 'द्विस्त्रि-
चतुरमतिनिहुत्य'.