2023-06-13 06:50:28 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

११४
 
दशकुमारचरितम् ।
 
[ द्वितीयः
 
न्नोपलब्धवान् । कथं वोपलभ्येत स वराकः । स खलु विम-

र्दको मद्ग्राहितत्वदभिज्ञानचिह्नो मन्नियोगा[^१]त्त्वदन्वेषणायोज्जयिनीं
तदहरेव प्रातिष्ठत । अर्थपतिस्तु तमदृष्ट्वा तत्कृतमपराधमात्मसं-
बद्धं मत्वा मोहाद्भयाद्वा प्रत्याख्याय पुनर्धनमित्रेण विभो[^२]विभाविते
कुपितेन राज्ञा निगृह्य निगडबन्धनमनीयत ।
 
-
 

तेष्वेव दिवसेषु विधिना कल्पोक्तेन चर्मरत्नं दोग्धुकामा काम-

मञ्जरी पूर्वदुग्धं क्षपणीभूतं विरूपकं रहस्युपसृत्य ततोऽपहृतं सर्व-

मर्थजातं तस्मै प्रत्यर्प्य सप्रश्रयं च बहुह्वनुनीय प्रत्यागमत् । सोऽपि

कथंचिन्निँर्म[^३]न्निर्ग्रन्थिकग्रहान्मोचितात्मा मद्नुशिष्टो हृष्टतमः स्वधर्ममेव
प्रत्यपद्यत । काममञ्जर्यपि कतिपयैरेवाहोभिरश्मन्तकशेषमजिन-
रत्नदोहाशया स्वमभ्युदयमकरोत् । अथ मत्प्रयुक्तो धनमित्र: पार्थिवं

 
पदचन्द्रिका ।
 

 
निषद्यायाम् । 'आपणस्तु निषद्यायां विपणिः पण्यवीथिका' इत्यमरः । नोपलब्ध-
वान् । न प्रापेत्यर्थः । स वराकस्तुच्छोऽर्थपतिः । मामद्ग्राहितेति । मयापहारव-
मै
र्मणा ग्राहितमशीङ्गीकारितं त्वदभिज्ञानचिह्नं तव राजवाहनस्याभिज्ञानचिह्नं यस्येति स
तथा । मन्नियोगान्ममाज्ञावशात् । तदहरेव तस्मिन्नेव दिवसे । प्रातिष्ठत प्रस्थि-
तवान् । अर्थपतिस्तं विमर्दकम् । तत्कृतं विमर्दककृतम् । आत्मसंबद्धमात्मीयमेव ।
मला
मत्वा ज्ञात्वा । प्रत्याख्याय विपरीतमुक्त्वा । 'प्रत्याख्यानं निरसने विपरीतविज-
ल्पिते' इत्यजयः । विभावित आविष्कृते । प्रकटीकृत इत्यर्थः । 'आविष्कारो विभा-
वनम्' । निगडबन्धनं पादबन्धनम् ॥
 

तेष्विति । सप्रश्रयं सविनयम् । 'सप्रत्ययम्' इति पाठे सशपथम् । सोऽपि
क्षपणकवेशधारी विरूपकनामा । निग्रन्थिकग्रहात्क्षपणकसिद्धान्तात् । 'निर्ग्रन्थोऽ-
हे
र्हन्क्षपणकः श्रमणो जिन इत्यपि इति वैजयन्ती । मदनुशिष्टो मया
बोधितः । कतिपयैरल्पैः । अश्मन्तकं चुल्लि: । 'अश्मन्तमुद्धानमधिश्रयणी

चुल्लिरन्तिका' इत्यमरः । अथेति । मत्प्रयुक्तो मदुपदिष्टः । लोकोपक्रोश-

 
भूषणा ।
 
:।
 

 
शेषः । 'प्रत्याख्यानं निरसने विपरीते तु जल्पिते' इत्यजयः । निर्ग्रन्थिकाग्रहा-
च्छ्रमणिकासिद्धान्तात् । 'निर्ग्रन्थोऽर्हन्क्षपणकः श्रमणो जिन इत्यपि इति
कोशः । अश्मन्तकशेषं चुहिल्लिशेषम् । 'अश्मन्तमुद्धानमधिश्रयणी चुल्लिरन्तिका

 
लघुदीपिका ।
 

 
-
 

 
इति वैजयन्ती । अयीत्यव्ययमनुनये । प्रत्याख्याय विपरीतं कथयित्वा । 'प्रत्या-
ख्यानं निरसने विपरीतविजल्पिते' इत्यजयः । विभावित आविष्कृते । 'आवि-
ष्कारो विभावनम्' । सप्रत्ययं सशपथम् । निर्ग्रन्थिकप्ग्रहाच्छ्रमणकसिद्धान्तात् ।
'निर्भन्यो

'निर्ग्रन्थो
ऽर्हन्क्षपणकः श्रवणो जिन इत्यपि' इति वैजयन्ती । अश्मन्तकम् । अश्म
पाठा०-

 
[^
]G. 'तु भ्रमन्'.
[^
]G. 'विभावितेन'.
[^
'निर्प्]G. 'निर्ग्रन्थिकाग्रहातूत्'.