This page has not been fully proofread.

११४
 
दशकुमारचरितम् ।
 
[ द्वितीयः
 
नोपलब्धवान् । कथं वोपलभ्येत स वराकः । स खलु विम-
र्दको मद्राहितत्वदभिज्ञानचिह्नो मन्नियोगात्त्वदन्वेषणायोज्जयिनीं
तदहरेव प्रातिष्ठत । अर्थपतिस्तु तमदृष्ट्वा तत्कृतमपराधमात्मसं-
बद्धं मत्वा मोहाद्भयाद्वा प्रत्याख्याय पुनर्धनमित्रेण विभोविते
कुपितेन राज्ञा निगृह्य निगडबन्धनमनीयत ।
 
-
 
तेष्वेव दिवसेषु विधिना कल्पोक्तेन चर्मरत्नं दोग्धुकामा काम-
मञ्जरी पूर्वदुग्धं क्षपणीभूतं विरूपकं रहस्युपसृत्य ततोऽपहृतं सर्व-
मर्थजातं तस्मै प्रत्यर्प्य सप्रश्रयं च बहुनुनीय प्रत्यागमत् । सोऽपि
कथंचिन्निँर्मन्थिकग्रहान्मोचितात्मा मद्नुशिष्टो हृष्टतमः स्वधर्ममेव
प्रत्यपद्यत । काममञ्जर्यपि कतिपयैरेवाहोभिरश्मन्तकशेषमजिन-
रत्नदोहाशया स्वमभ्युदयमकरोत् । अथ मत्प्रयुक्तो धनमित्र: पार्थिवं
पदचन्द्रिका ।
 
निषद्यायाम् । 'आपणस्तु निषद्यायां विपणिः पण्यवीथिका' इत्यमरः । नोपलब्ध-
वान् । न प्रापेत्यर्थः । स वराकस्तुच्छोऽर्थपतिः । माहितेति । मयापहारव-
मैणा ग्राहितमशीकारितं वदभिज्ञानचिह्नं तव राजवाहनस्याभिज्ञानचिह्नं यस्येति स
तथा । मन्नियोगान्ममाज्ञावशात् । तदहरेव तस्मिन्नेव दिवसे । प्रातिष्ठत प्रस्थि-
तवान् । अर्थपतिस्तं विमर्दकम् । तत्कृतं विमर्दककृतम् । आत्मसंबद्धमात्मीयमेव ।
मला ज्ञात्वा । प्रत्याख्याय विपरीतमुक्त्वा । 'प्रत्याख्यानं निरसने विपरीतविज-
ल्पिते' इत्यजयः । विभावित आविष्कृते । प्रकटीकृत इत्यर्थः । 'आविष्कारो विभा-
वनम्' । निगडबन्धनं पादबन्धनम् ॥
 
तेष्विति । सप्रश्रयं सविनयम् । 'सप्रत्ययम्' इति पाठे सशपथम् । सोऽपि
क्षपणकवेशधारी विरूपकनामा । निग्रन्थिकग्रहात्क्षपणकसिद्धान्तात् । 'निर्मन्थोऽ-
हेन्क्षपणकः श्रमणो जिन इत्यपि इति वैजयन्ती । मदनुशिष्टो मया
बोधितः । कतिपयैरल्पैः । अश्मन्तकं चुल्लि: । 'अश्मन्तमुद्धानमधिश्रयणी
चुल्लिरन्तिका' इत्यमरः । अथेति । मत्प्रयुक्तो मदुपदिष्टः । लोकोपक्रोश-
भूषणा ।
 
:।
 
शेषः । 'प्रत्याख्यानं निरसने विपरीते तु जल्पिते' इत्यजयः । निर्ग्रन्थिकाग्रहा-
च्छ्रमणिकासिद्धान्तात् । 'निर्ग्रन्थोऽर्हन्क्षपणकः श्रमणो जिन इत्यपि इति
कोशः । अरमन्तकशेषं चुहिशेषम् । 'अश्मन्तमुद्धानमधिश्रयणी चुल्लिरन्तिका
लघुदीपिका ।
 

 
-
 
इति वैजयन्ती । अयीत्यव्ययमनुनये । प्रत्याख्याय विपरीतं कथयित्वा । 'प्रत्या-
ख्यानं निरसने विपरीतविजल्पिते' इत्यजयः । विभावित आविष्कृते । 'आवि-
कारो विभावनम्' । सप्रत्ययं सशपथम् । निर्मन्थिकप्रहाच्छ्रमणकसिद्धान्तात् ।
'निर्भन्योऽर्हन्क्षपणकः श्रवणो जिन इत्यपि इति वैजयन्ती । अश्मन्तकम् । अश्म
पाठा०-१ 'तु भ्रमन्'. २ 'विभावितेन'. ३ 'निर्प्रन्थिकाग्रहातू'.