2023-06-12 15:54:57 by Lakshmainarayana achar
This page has been fully proofread once and needs a second look.
भवन्मनोऽभिनिविशते । तस्याश्च मया सुलक्षिता भाववृत्तिः ।
तामप्यचिरादयुग्मशरः शरशयने शाययिष्यति । स्थानाभिनिवे-
शिनोश्च वामयत्नसाध्यः समागमः । किंतु सा किल वारकन्यका गणिकास्वधर्मप्रतीपगामिना भद्रोदारेणाशयेन समगिरत-
'गुणशुल्काहम्, न धनशुल्का । न च पाणिग्रहणादृतेऽन्यभोग्यं
यौवनम्' इति । तच्च मुहुः प्रतिषिध्याकृतार्था तद्भगिनी कामम-
ञ्जरी माता च माधवसेना राजानमश्रुकण्ठ्यौ व्यजिज्ञपताम्-
'देव, युष्मद्दासी रागमञ्जरी रूपानुरूपशीलशिल्पकौशला पूरयि-
ष्यति मनोरथानित्यासीदस्माकमतिमहत्याशा, साद्य मूलच्छिन्ना ।
यदियमतिक्रमः स्वकुलधर्ममर्थनिरपेक्षा गुणेभ्य एव स्वं यौवनं
विचिक्रीषते । कुलस्त्रीवृत्तमेवाच्युतमनुतिष्ठासति । सा चेदियं
देवपादाज्ञयापि तावत्प्रकृतिमापद्येत तदा पेशलं भवेत्' इति । राज्ञा
च तदनुरोधात्तथानुशिष्टा सत्यप्यनाश्रवैव सा यदासीत्, तदास्याः
स्वसा माता च रुदितनिर्बन्धेन राज्ञे समगिरताम् – 'यदि कश्चि
द्भुजङ्गोऽस्मदिच्छया विनैनां बालां विप्रलभ्य नाशयिष्यति स
पदचन्द्रिका ।
ममुना प्रकारेण । भवन्मनस्त्वदीयं चेतः । कर्तुः । भाववृत्तिश्चित्तवृत्तिः । अयुग्मशरो विषमबाणः । शरशयने बाणशयने । शाययिष्यति स्वापयिष्यति । णिजन्तम् ।
स्थानाभिनिवेशिनोर्युक्ताभिनिवेशिनोः । 'युक्ते द्वे सांप्रतं स्थाने' इत्यमरः । अयत्नसाध्यः सुखसाध्यः । किंत्विति पदं विशेषसूचकम् । गणिकानां वेश्यानां यः स्वधर्मः शुल्कादिग्रहणरूपस्तेन प्रतीपगामिना विरुद्धवर्तिना। 'वामं प्रसव्यं प्रतीपं प्रतीलोममपष्ठु च' इति हैमः । भद्रोदारेण कल्याणोदारेण । आशयेनाभिप्रायेण । समगिरत । अवददित्यर्थः । गुणशुल्का गुणमूल्या । ऋत इत्यव्ययं विनेत्यर्थम् । अकृतार्थाऽसिद्धार्था । व्यजिज्ञपतां विज्ञापयामासतुः । शिल्पं शिल्पकर्म । कुशलस्य भावः कौशलम् । साशा । मूलच्छिन्ना मूलभ्रष्टा । स्वकुलधर्म धनग्रहणादि । विचिकीषते विक्रेतुमिच्छति । वृत्तमाचरणम् । अच्युतं बद्धमूलम् । अनुतिष्ठासति
अनुष्ठातुमिच्छति । प्रकृतिः स्वभावः । पेशलं सुकुमारम् । अनाश्रवा । 'वचने स्थित आश्रवः' इत्यमरः । तथा न भवतीत्यर्थः । यदीति । भुजङ्गो विटः । 'भुजङ्गः
भूषणा ।
वैजयन्ती । याम् । 'अभिनिविशश्च' (१।४।४७) इति कर्मत्वम् । समगिरतोक्तवती । पेशलं कुशलम् । अनाश्रवैवानङ्गीकृताज्ञैव । 'वचने स्थित आश्रवः' इत्यमरः । भुजङ्गो
लघुदीपिका ।
ववृत्तिश्चित्तवृत्तिः । अत्यन्तमित्यव्ययम् । भृशमित्यर्थः । आश्रवोक्तकारिणी अना-
तामप्यचिरादयुग्मशरः शरशयने शाययिष्यति । स्थानाभिनिवे-
शिनोश्च वामयत्नसाध्यः समागमः । किंतु सा किल वारकन्यका गणिकास्वधर्मप्रतीपगामिना भद्रोदारेणाशयेन समगिरत-
'गुणशुल्काहम्, न धनशुल्का । न च पाणिग्रहणादृतेऽन्यभोग्यं
यौवनम्' इति । तच्च मुहुः प्रतिषिध्याकृतार्था तद्भगिनी कामम-
ञ्जरी माता च माधवसेना राजानमश्रुकण्ठ्यौ व्यजिज्ञपताम्-
'देव, युष्मद्दासी रागमञ्जरी रूपानुरूपशीलशिल्पकौशला पूरयि-
ष्यति मनोरथानित्यासीदस्माकमतिमहत्याशा, साद्य मूलच्छिन्ना ।
यदियमतिक्रमः स्वकुलधर्ममर्थनिरपेक्षा गुणेभ्य एव स्वं यौवनं
विचिक्रीषते । कुलस्त्रीवृत्तमेवाच्युतमनुतिष्ठासति । सा चेदियं
देवपादाज्ञयापि तावत्प्रकृतिमापद्येत तदा पेशलं भवेत्' इति । राज्ञा
च तदनुरोधात्तथानुशिष्टा सत्यप्यनाश्रवैव सा यदासीत्, तदास्याः
स्वसा माता च रुदितनिर्बन्धेन राज्ञे समगिरताम् – 'यदि कश्चि
द्भुजङ्गोऽस्मदिच्छया विनैनां बालां विप्रलभ्य नाशयिष्यति स
पदचन्द्रिका ।
ममुना प्रकारेण । भवन्मनस्त्वदीयं चेतः । कर्तुः ।