2023-05-18 02:10:21 by ambuda-bot
This page has not been fully proofread.
उच्वासः ] पदचन्द्रिका-भूषणा-लघुदीपिकासहितम् । १११
भवन्मनोऽभिनिविशते । तस्याश्च मया सुलक्षिता भाववृत्तिः ।
तामप्यचिरादयुग्मशरः शरशयने शाययिष्यति । स्थानाभिनिवे-
शिनोच वामयत्नसाध्यः समागमः । किंतु सा किल वारक-
न्यका गणिकास्वधर्मप्रतीपगामिना भद्रोदारेणाशयेन समगिरत-
'गुणशुल्काहम्, न धनशुल्का । न च पाणिग्रहणाहतेऽन्यभोग्यं
यौवनम्' इति । तच मुहुः प्रतिषिध्याकृतार्था तद्भगिनी कामम-
झरी माता च माधवसेना राजानमनुकण्ठ्यौ व्यजिज्ञपताम्-
'देव, युष्मदासी रागमञ्जरी रूपानुरूपशीलशिल्पकौशला पूरयि-
घ्यति मनोरथानित्यासीदस्माकमतिमहत्याशा, साद्य मूलच्छिन्ना ।
यदियमतिक्रमः स्वकुलधर्ममर्थनिरपेक्षा गुणेभ्य एव स्वं यौवनं
विचिक्रीषते । कुलस्त्रीवृत्तमेवाच्युतमनुतिष्ठासति । सा चेदिय
देवपादाज्ञयापि तावत्प्रकृतिमापद्येत तदा पेशलं भवेत्' इति । राज्ञा
च तदनुरोधात्तथानुशिष्टा सत्यप्यनाअवैव सा यदासीत्, तदास्याः
स्वसा माता च रुदितनिर्बन्धेन राज्ञे समगिरताम् – 'यदि कश्चि
द्भुजङ्गोऽस्मदिच्छया विनैनां बालां विप्रलभ्य नाशयिष्यति स
पदचन्द्रिका ।
-
ममुना प्रकारेण । भवन्मनस्त्वदीयं चेतः । कर्तुः । भाववृत्तिश्चित्तवृत्तिः । अयुग्मशरो
विषमबाणः । शरशयने बाणशयने । शाययिष्यति स्वापयिष्यति । णिजन्तम् ।
स्थानाभिनिवेशिनोर्युक्ताभिनिवेशिनोः । 'युक्ते द्वे सांप्रतं स्थाने' इत्यमरः । अयत्न-
साध्यः सुखसाध्यः । किंत्विति पदं विशेषसूचकम् । गणिकानां वेश्यानां यः स्वधर्मः
शुल्कादिग्रहणरूपस्तेन प्रतीपगामिना विरुद्धवर्तिना। 'वामं प्रसव्यं प्रतीपं प्रतीं-
लोममपष्टु च' इति हैमः । भद्रोदारेण कल्याणोदारेण । आशयेनाभिप्रायेण । सम-
गिरत । अवददित्यर्थः । गुणशुल्का गुणमूल्या । ऋत इत्यव्ययं विनेत्यर्थम् । अकृ-
तार्थाऽसिद्धार्था । व्यजिज्ञपतां विज्ञापयामासतुः । शिल्पं शिल्पकर्म । कुशलस्य
भावः कौशलम् । साशा । मूलच्छिन्ना मूलभ्रष्टा । खकुलधर्म धनग्रहणादि ।
विचिकीषते विक्रेतुमिच्छति । वृत्तमाचरणम् । अच्युतं बद्धमूलम् । अनुतिष्ठासवि
अनुष्ठातुमिच्छति । प्रकृतिः स्वभावः । पेशलं सुकुमारम् । अनाश्रवा । 'वचने स्थित
आश्रवः' इत्यमरः । तथा न भवतीत्यर्थः । यदीति । भुजङ्गो विटः । भुजङ्गः
भूषणा ।
वैजयन्ती । याम् । 'अभिनिविशश्च' (१९४१४७) इति कर्मत्वम् । समगिरतोक्तवती ।
पेशलं कुशलम् । अनाश्रवैवानजीकृतज्ञैव । 'वचने स्थित आश्रवः' इत्यमरः । भुजङ्गो
लघुदीपिका ।
ववृत्तिश्चित्तवृत्तिः । अत्यन्तमित्यव्ययम् । भृशमित्यर्थः । आश्रवोक्तकारिणी अना-