2023-06-12 15:34:08 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

सात्, किमभिलाषात्, किमकस्मादेव वा, न जाने, – असकृन्मां
सखीभिरप्यनुपलक्षितेनापाङ्गप्रेक्षितेन सविभ्रमारेचितभ्रूलतमभि-
वीक्ष्य, सापदेशं च किंचिदाविष्कृतदशनचन्द्रिकं स्मित्वा, लोकलो-
चनमानसानुयाता प्रातिष्ठत । सोऽहं स्वगृहमेत्य दुर्निवारयोत्कण्ठया दूरीकृताहारस्पृहः शिरःशूलस्पर्शनमपदिशन्विविक्ते तल्पे मुक्तैरवयवैरशयिषि । अतिनिष्णातश्च मदनतन्त्रे मामभ्युपेत्य धनमित्रो रहस्यकथयत् – 'सखे, सैव धन्या गणिकादारिका, यामेवं
 
पदचन्द्रिका ।
 
अनुपलक्षितेनाज्ञातेन । आरेचितभूलतं वक्रीकृतभ्रूलतमिति
क्रियाविशेषणम् । सापदेशं सव्याजम् । 'व्याजोऽपदेशः' इत्यमरः । आविष्कृता दशनचन्द्रिका दन्तज्योत्स्ना यत्र तदिति । लोकानां लोचनानि नेत्राणि मानसानि चित्तानि तैरनुयातानुगता। सोऽहमिति । दूरीकृता त्यक्ता आहारस्पृहा भक्षणेच्छा येनेति तथा । शिरःशूलस्पर्शनं शिरोवेदनाप्राप्तिम् । अपदिशन् ख्यापयन् । विविक्ते विजने । अशयिषि । 'शीङ् स्वप्ने' । लुङ्यात्मनेपद उत्तमपुरुषैकवचनम् । शयितवान् । अतिनिष्णातोऽतिनिपुणः । 'निष्णातो निपुणोऽभिज्ञः' इति वैजयन्ती । मदनतन्त्रे
मदनशास्त्रे । 'तन्त्रं कुटुम्बकृत्ये स्यात्करणे च परिच्छदे । शास्त्रे प्रधाने सिद्धान्ते' इति विश्वः । दारिका कन्या । 'कुमारी दारिका कन्या' इति वैजयन्ती । एव-
 
भूषणा ।
 
हलायुधः । नृत्योत्थितेत्यादि । अनुपलक्षितेन परकीयात्वाद्गुप्तचेष्टा । आरेचितभ्रूलतम् । कन्यकात्वादिति भावः । 'स्वानूढा स्वानुरक्ता स्त्री परकीया निगद्यते । परोढा कन्यका भेदाद्विविधा' इति रसरत्नहारः । यत्तु रसमञ्जर्याम्-
'अप्रकटपरपुरुषानुशया परकीया । सा च द्विविधा । परोढा कन्यका च' इति कन्यकायाः परपुरुषासंभवात् । यत्तु व्यङ्ग्यार्थकौमुद्याम् - 'भाविपुरुषापेक्षया परत्वमवसेयम्' इत्यर्थवर्णनम्, तदपि न, भाविविवाहापेक्षया परोढात्वेन द्वितीयभेदस्यैवासंभवात् । सापदेशं सव्याजम् । 'व्याजोऽपदेशो लक्ष्यं च' इत्यमरः । लोकलोचनेति । लोकलोचनमानसैरनुयाता । लोकानां लोचनमानसान्यनुगच्छन्ती तस्याः पृष्ठत इति यावत् । विविक्त आस्तीर्णरहिते । अतिनिष्णातोऽतिनिपुणः ।
'प्रवीणे निपुणाभिज्ञविज्ञनिष्णातशिक्षिताः' इत्यमरः । 'निनदीभ्यां स्नातेः कौशले' ( ८।३।८९ ) इति षत्वम् । तन्त्रं शास्त्रम् । दारिका । 'कुमारी दारिका कन्या' इति
 
लघुदीपिका ।
 
इति हलायुधः । सापदेशं सव्याजम् । 'व्याजोऽपदेशो लक्ष्यं च' । अतिनिष्णातोऽतिनिपुणः । 'निष्णातो निपुणोऽभिज्ञः' इति वैजयन्ती । तन्त्रं शास्त्रम् । 'तन्त्रं प्रधाने सिद्धान्ते । दारिका । 'कुमारी दारिका कन्या' इति वैजयन्ती । भा-