2023-06-12 15:29:24 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

११०
 
दशकुमारचरितम् ।
 
[ द्वितीयः
 
सात्, किमभिलाषात्, किमकस्मादेव वा, न जाने, – असकृन्मां

सखीभिरप्यनुपलक्षितेनापाङ्गप्रेक्षितेन सविभ्रमारेचितभ्रूलतमभि-

वीक्ष्य, सापदेशं च किंचिदाविष्कृतदशनचन्द्रिकं स्मित्वा, लोकलो-

चनमानसानुयाता प्रातिष्ठत । सोऽहं स्वगृहमेत्य दुर्निवारयोत्कण्ठ्या
ठया दूरीकृताहारस्पृहः शिरःशूलस्पर्शनमपदिशन्विविक्ते तल्पे मुक्त-
तैरवयवैरशयिषि । अतिनिष्णातञ्श्च मदनतन्त्रे मामभ्युपेत्य धन-
मित्रो रहस्यकथयत् – 'सखे, सैव धन्या गणिकादारिका, यामेवं
 

 

 
पदचन्द्रिका ।
 

 
अनुपलक्षितेनाज्ञातेन । आरेचितभूलतं वक्रीकृतभ्रूलतमिति
क्रियाविशेषणम् ।
सापदेशं सव्याजम् । 'व्याजोऽपदेशः' इत्यमरः । आविष्कृता दशनचन्द्रिका
दन्तज्योत्स्ना यत्र तदिति । लोकानां लोचनानि नेत्राणि मानसानि चित्तानि
तैरनुयातानुगता। सोऽहमिति । दूरीकृता त्यक्ता आहारस्पृहा भक्षणेच्छा येनेति
तथा । शिरःशूलस्पर्शनं शिरोवेदनाप्राप्तिम् । अपदिशन् ख्यापयन् । विविक्ते विजने ।
अशयिषि । 'शीङ् स्वप्ने' । लुब्धाङ्यात्मनेपद उत्तमपुरुषैकवचनम् । शयितवान् ।
अतिनिष्णातोऽतिनिपुणः । 'निष्णा तो निपुणोऽभिज्ञः' इति वैजयन्ती । मदनतन्त्रे

मदनशास्त्रे । 'तन्त्रं कुटुम्बकृत्ये स्यात्करणे च परिच्छदे । शास्त्रे प्रधाने सिद्धान्ते'
इति विश्वः । दारिका कन्या । 'कुमारी दारिका कन्या' इति वैजयन्ती । एव-

 
भूषणा ।
 
-
 

 
हलायुधः । नृत्योत्थितेत्यादि । अनुपलक्षितेन परकीयात्वाद्गुप्तचेष्टा । आरेचित-
भ्रूलतम् । कन्यकात्वादिति भावः । 'स्वानूढा खास्वानुरकाक्ता स्त्री परकीया निग-
द्यते । परोढा कन्यका भेदाद्विविधा' इति रसरत्नहारः । यत्तु रसमञ्जर्याम्-

'अप्रकटपरपुरुषानुशया परकीया । सा च द्विविधा । परोढा कन्यका च' इति कन्य-
कायाः परपुरुषासंभवात् । यत्तु व्यङ्ग्यार्थकौमुद्याम् - 'भाविपुरुषापेक्षया परत्वम-
वसेयम्' इत्यर्थवर्णनम्, तदपि न, भाविविवाहापेक्षया परोढात्वेन द्वितीयभेदस्यै-
वासंभवात् । सापदेशं सव्याजम् । 'व्याजोऽपदेशो लक्ष्यं च' इत्यमरः । लोक-
लोचनेति । लोकलोचनमानसैरनुयाता । लोकानां लोचनमानसान्यनुगच्छन्ती
तस्याः पृष्ठत इति यावत् । विविक्त आस्तीर्णरहिते । अतिनिष्णातोऽतिनिपुणः ।

'प्रवीणे निपुणाभिज्ञविज्ञनिष्णातशिक्षिताः' इत्यमरः । 'निनदीभ्यां स्नातेः कौशले'
( ८८९ ) इति षत्वम् । तन्त्रं शास्त्रम् । दारिका । 'कुमारी दारिका कन्या' इति

 
लघुदीपिका ।
 

 
इति हलायुधः । सापदेशं सव्याजम् । 'व्याजोऽपदेशो लक्ष्यं च' । अतिनिष्णा-
तोऽतिनिपुणः । 'निष्णातो निपुणोऽभिज्ञः' इति वैजयन्ती । तन्त्रं शास्त्रम् । 'तन्त्रं
प्रधाने सिद्धान्ते । दारिका । 'कुमारी दारिका कन्या' इति वैजयन्ती । भा-