2023-06-12 15:16:17 by Lakshmainarayana achar
This page has been fully proofread once and needs a second look.
एष्वेव दिवसेषु काममञ्जर्याः स्वसा यवीयसी रागमञ्जरी नाम
पञ्चवीरगोष्ठे [^१]संगीतकमनुष्ठास्यतीति सान्द्रादरः समागमन्नागर-
जनः । स चाहं सह सख्या धनमित्रेण तत्र संन्यधिषि । प्रवृ-
त्तनृत्यायां च तस्यां द्वितीयं रङ्गपीठं ममाभून्मनः । तद्दृष्टिविभ्र-
मोत्पलवन [^२]सत्रापाश्रयश्च पञ्चशरो भावरसानां सामग्र्यत्समुदितबल इव मामतिमात्रमव्यथयत् । अथासौ नगरदेवतेव नगरमोषरोषिता लीलाकटाक्षमालाशृङ्खलाभिर्नीलोत्पल [^३]पलाशश्यामलाभि-
र्मामबध्नात् । नृत्योत्थिता च सा सिद्धिलाभशोभिनी– 'किं विला-
पदचन्द्रिका ।
एष्विति । तेष्वेव दिवसेषु । पञ्चवीरगोष्ठे जानपदे सदसि । 'तत्पञ्चवीरगोष्ठं तु यत्तु जानपदं सदः' इति कोशसारः । संगीतकं गीतादि । 'गीतं वाद्यं च नृत्यं च त्रिभिः संगीतमुच्यते' इति संगीतसर्वस्वे । नागरजनो नागरिकलोकः । अहमपहारवर्मा । धनमित्रेण । तत्र सभायाम् । रङ्गपीठं नृत्यस्थानम् । सत्रमाच्छादनम् । 'सत्रमाच्छादने यज्ञे सदादाने वनेऽपि च ' इति विश्वः । तस्मादपगत आश्रयो यस्येति । उत्पलवनसत्रमात्राश्रय इति भावः । पञ्चशरः कामः । भावरसानाम् भावा विभावादयः । रसाः शृङ्गारादयः तेषाम् । सामग्र्यं समग्रस्य भावस्तेन । समुदितबल इव मिलितबल इव । अतिमात्रं निर्भरम् । 'अतिमात्रोद्गाढनिर्भरम्' इत्यमरः । अथेति । असौ रागमञ्जरी । नगरमोषो नगरचौर्यं तेन रोषितेव रुष्टा । लीलाकटाक्षमाला एव शृङ्खलास्ताभिः । नीलोत्पलपलाशानि नीलोत्पलपत्राणि । 'पत्रं पलाशं छदनं दलं पर्ण छदः पुमान्' इत्यमरः । तद्वच्छ्यामलाः । 'कालश्यामलमेचकाः'
इत्यमरः । अबध्नात् । बबन्धेत्यर्थः । सिद्धिलाभशोभिनी समृद्धिफलप्राप्तिशोभिनी ।
भूषणा ।
हर्तुं विवाहं निरोद्धुमिति भावः । विमर्दक इति । द्यूतप्रकरणे यः सभिकः । पञ्चवीरगोष्ठे । 'तत्पञ्चवीरगोष्ठं तु यत्तु जानपदं सदः' । संगीतम् । 'नृत्यं गीतं च वाद्यं च संगीतं त्वत्र भाषितम्' इति भागुरिः । सत्रमाच्छादनम् । 'सत्रमाच्छादने यज्ञे सदादाने वनेऽपि च' इति वैजयन्ती । भावरसानाम् । 'बाह्यार्थालम्बनो यस्तु विकारो मानसो भवेत् । स भावः कथ्यते सद्भिस्तस्योत्कर्षो रसः स्मृतः ॥" इति
लघुदीपिका ।
पञ्चवीरगोष्ठे । 'तत्पञ्चवीरगोष्ठं तु यत्तु जानपदं सदः' । संगीतम् । 'नृत्यं गीतं च वाद्यं च संगीतं त्वत्र भाषितम्' इति भागुरिः । सत्रमाच्छादनम् । 'सत्रमाच्छादने यज्ञे सदादाने वनेऽपि च' इति वैजयन्ती । भावरसानाम् । 'बाह्यार्थालम्बनो यस्तु विकारो मानसो भवेत् । स भावः कथ्यते सद्भिस्तस्योत्कर्षो रसः स्मृतः ॥
[^१]G. 'संगीतम्'.
[^२]G. 'सच्चापाश्रयश्च'.
[^३]G. 'पलाशदाम'.
१० द० कु०