2023-05-18 02:10:20 by ambuda-bot
This page has not been fully proofread.
उच्छ्वासः ] पदचन्द्रिका-भूषणा- लघुदीपिकासहितम् । १०९
M
एष्वेव दिवसेषु काममञ्जर्याः स्वसा यवीयसी रागमञ्जरी नाम
पञ्चवीरगोष्ठे संगीतकमनुष्ठास्यतीति सान्द्रादरः समागमन्नागर-
जनः । स चाहं सह सख्या धनमित्रेण तत्र संन्यधिषि । प्रवृ-
त्तनृत्यायां च तस्यां द्वितीयं रङ्गपीठं ममाभून्मनः । तद्दृष्टिविभ्र-
मोत्पलवनसंत्रापाश्रयश्च पञ्चशरो भावरसानां सामन्यात्समुदित-
बल इव मामतिमात्रमव्यथयत् । अथासौ नगरदेवतेव नगरमो-
षरोषिता लीलाकटाक्षमालाशृङ्खलाभिर्नीलोत्पलपैलाशश्यामलाभि-
र्मामबध्नात् । नृत्योत्थिता च सा सिद्धिलाभशोभिनी– 'किं विला-
पदचन्द्रिका ।
एष्विति । तेष्वेव दिवसेषु । पञ्चवीरगोष्ठे जानपदे सदसि । 'तत्पञ्चवीरगोष्टं
तु यत्तु जानपदं सदः' इति कोशसारः । संगीतकं गीतादि । 'गीतं वाद्यं च नृत्यं
च त्रिभिः संगीतमुच्यते' इति संगीतसर्वस्खे । नागरजनो नागरिकलोकः । अहम-
पहारवर्मा । धनमित्रेण । तत्र सभायाम् । रङ्गपीठं नृत्यस्थानम् । सत्रमाच्छादनम् ।
'सत्रमाच्छादने यज्ञे सदादाने वनेऽपि च ' इति विश्वः । तस्मादपगत आश्रयो यस्येति ।
उत्पलवनसत्रमात्राश्रय इति भावः । पञ्चशरः कामः । भावरसानाम् भावा
विभावादयः । रसाः शृङ्गारादयः तेषाम् । सामयं समग्रस्य भावस्तेन । समुदित-
बल इव मिलितबल इव । अतिमात्रं निर्भरम् । 'अतिमात्रोद्गाढनिर्भरम्' इत्यमरः ।
अथेति । असौ रागमञ्जरी । नगरमोषो नगरचौर्य तेन रोषितेव रुष्टा । लीलाक-
टाक्षमाला एव शृङ्खलास्ताभिः । नीलोत्पलपलाशानि नीलोत्पलपत्राणि । 'पत्रं पलाशं
छदनं दलं पर्ण छदः पुमान्' इत्यमरः । तद्वच्छयामलाः । 'कालश्यामलमेचकाः'
इत्यमरः । अबध्नात् । बबन्धेत्यर्थः । सिद्धिलाभशोभिनी समृद्धिफलप्राप्तिशोभिनी ।
भूषणा ।
हर्तु विवाहं निरोद्धुमिति भावः । विमर्दक इति । द्यूतप्रकरणे यः समिकः ।
पञ्चवीरगोष्ठे । 'तत्पञ्चवीरगोष्ठं तु यत्तु जानपदं सदः' । संगीतम् । 'नृत्यं गीतं च
वाद्यं च संगीतं त्वत्र भाषितम्' इति भागुरिः । सत्रमाच्छादनम् । 'सत्रमाच्छा'
दने यज्ञे सदादाने वनेऽपि च' इति वैजयन्ती । भावरसानाम् । 'बाह्यार्थालम्बनो
यस्तु विकारो मानसो भवेत् । स भावः कथ्यते सद्भिस्तस्योत्कर्षो रसः स्मृतः ॥" इति
लघुदीपिका ।

वाद्यं च संगीतं त्वत्र भाषितम्' इति भागुरिः । सत्रमाच्छादनम् । 'सत्रमाच्छा-
क्ने यज्ञे सदादाने वनेऽपि च' इति वैजयन्ती । भावरसानाम् । 'बाह्यार्थालम्बनो
यस्तु विकारो मानसो भवेत् । स भावः कथ्यते सद्भिस्तस्योत्कर्षो रसः स्मृतः ॥
पाठा०-१ 'संगीतम्'. २ 'सञ्चापाश्रयश्च'. ३ 'पलाशदाम'.
१० द० कु०