This page has not been fully proofread.

१०८
 
दशकुमारचरितम् ।
 
[द्वितीयः
 
गच्छ । यथेष्टमिमामुपभुङ्क्ष्व' इति । भूयञ्च ब्रूहि – 'यथा न कश्चि-
देनां मुष्णाति तथानुगृह्यताम्' इति । तद्ध्यवश्यमसावभ्युपेष्यति ।
ततः स्वगृहमेत्य यथोक्तमर्थत्यागं कृत्वा दिने दिने वैरिवस्यमानां
स्तेयलब्धैरर्थैर्नक्तमापूर्य प्राहे लोकाय दर्शयिष्यसि । ततः कुबेर-
दत्तस्तृणाय मत्वार्थपतिमर्थलुब्धः कन्यकया स्वयमेव त्वामुपस्था-
स्यति । अथ कुपितोऽर्थपतिर्व्यवहर्तुमर्थगर्वादभियोक्ष्यते । तं च
भूयश्चित्रैरुपायैः कौपीनावशेषं करिष्यावः । स्वकं चौर्यमनेनैवा-
भ्युपायेन सुप्रच्छन्नं भविष्यति' इति । हृष्टश्च धनमित्रो यथोक्त-
मन्वतिष्ठत् । तद्हरेव मन्नियोगाद्विमर्दकोऽर्थपतिसेवाभियुक्तस्त-
स्योदारके वैरमभ्यवर्धयत् । अर्थलुब्धश्च कुबेरदत्तो निवृत्त्यार्थ-
पतेर्धन मित्रायैव तनयां सानुनयं प्रादित्सत । प्रत्यबध्नाञ्चार्थपतिः ॥
 
पदचन्द्रिका ।
 
भस्त्रिकाम् । मुष्णाति चोरयति । असौ राजा । अभ्युपेष्यत्यङ्गीकरिष्यति । तत इति ।
अर्थत्यागं द्रव्यदानम् । वरिवस्यमानां सेव्यमानाम् । 'वरिवस्या तु शुश्रूषा' इत्यमरः ।
स्तेयलब्धैश्चौर्यप्राप्तैः । नक्तं रात्रौ । कुबेरदत्तः कन्यापिता । तृणाय मत्वा तृणप्राय
ज्ञात्वा । 'मन्यकर्मण्यनादरे विभाषाऽप्राणिषु' ( ) इति चतुर्थी । उपस्थास्य-
त्याराधयिष्यति । अथेति । अर्थगर्वाह्नव्योन्मादात् । अभियोक्ष्यते द्वेषं करिष्यति ।
'अभियोगः स्मृतो द्वेषः' इति । तमर्थपतिम् । चित्रैरनेकैः । हृष्टो हर्षः आप्तः ।
तदिति । तदहरेव तस्मिन्नेव दिवसे । विमर्दक एतन्नाम्ना ख्यातः । अर्थपतेः सेवा-
न्यामभियुक्तः संनद्धः । तस्यार्थपतेः । उदारके धनमित्रे । वैरं द्वेषम् । अभ्यवर्धयत्
अभिवर्धितवान् । कुबेरदत्तः कन्यापिता । अर्थपतेः सकाशान्निवृत्त्य परावृत्त्य । धनमि-
त्रायैव तनयां कन्याम् । प्रादित्सत दत्तवान् । प्रत्यबनात् । प्रतिबन्धं चकारेत्यर्थः ॥
 
भूषणा ।
 

 
कः ) । 'प्रमाणं हेतुमर्यादाशास्त्रेयत्ताप्रमातृषु' इति । वरिवस्यमाना शुश्रूषमाणा ।
'वरिवस्या तु शुश्रूषा परिचर्याप्युपासना' इत्यमरः । तृणाय तृणवत् । 'मन्यकर्मण्य -
बादरे-* (२।३।१७) इति चतुर्थी । अभूदित्यध्याहारः । अभियुक्तः संनद्धः । व्यव-
लघुदीपिका ।
 
मानामुपास्यमानाम् । 'वरिवस्या तु शुश्रूषा परिचर्याप्युपासना' । तृणाय तृणवत् ।
'मन्यकर्मण्यनादरे विभाषाऽप्राणिषु' (२।३।१७) इति चतुर्थी । अभियुक्तः संनद्धः ।
 
पाठा०-१ 'वरिवस्यमाना',