This page has not been fully proofread.

उच्छ्वासः ] पदचन्द्रिका - भूषणा- लघुदीपिकासहितम् ।
 
१०७
 
WHE
 
बहवः । नैकोऽपि च्छिन्नकण्ठप्रतिसंधानपूर्वस्य प्राणलाभस्य ।
किमनेन । सोऽस्म्यहं मन्त्रसिद्धः । साधितेयं लक्षग्राहिणी चर्म-
रत्नभस्त्रिका । चिरमहमस्याः प्रसादात्कामरूपेषु कामप्रदः प्रजा-
नामवात्सम् । मत्सरिण्यां जरसि भूमिस्वर्गमत्रोद्देशे, प्रवेक्ष्यन्नां-
गतः । तामिमां प्रतिगृहाण । मदन्यत्र चेयं वणिग्भ्यो वारमु-
ख्याभ्यो वा दुग्धे इति हि तद्गता प्रतीतिः । किंतु यत्सकाशाद-
न्यायापहृतं तत्तस्मै प्रत्यर्पणीयम् । न्यायार्जितं तु देवब्राह्मणेभ्य-
स्त्याज्यम् । अथेयं देवतेव शुचौ देशे निवेश्यार्च्यमाना प्रातः-
प्रातः सुवर्णपूर्णैव दृश्यते । स एष कैल्पः' इति बद्धाञ्जलये
महामेनां दत्त्वा किमपि प्रावच्छिद्रं प्राविशत् । 'इयं च रत्नभूता
चर्मभस्त्रिका देवायानिवेद्य नोपजीव्येत्यानीता । परंतु देवः प्रमा-
णम्' इति । राजा च नियतमेव वक्ष्यति – 'भद्र, प्रीतोऽस्मि ।
 
पदचन्द्रिका ।
 

 
पायश्छिन्नो यः कण्ठस्तस्य यत्प्रतिसंधानं पुनः संबन्धस्तत्पूर्वस्य प्राणलाभस्य प्राण-
प्राप्तेर्नेति नास्तीत्यर्थः । किमनेन प्राणत्यागेन । लक्षग्राहिणी लक्षं ग्राहयतीति तथा ।
कामरूपेषु देशेषु । कामप्रदो मनोरथदाता । अवात्सं वसतिमकरवम् । मत्सरिण्यां
मत्सरकारिण्याम् । जरसि वार्धके । भूमिस्वर्ग भूम्यां स्वर्ग इव स्वर्गस्तम् । अत्रो-
द्देशेऽस्मिन्प्रदेशे । इमां चर्मरत्नभस्त्रिकाम् । मदन्यत्र । मां विहायान्यत्रेत्यर्थः ।
इयं चर्मरत्नभस्त्रिका । वणिग्भ्यो वैश्येभ्यः । वारमुख्याभ्यो वाराङ्गनाभ्यः । दुग्धे ।
'दुह प्रपूरणे' । पूरयतीत्यर्थः । इत्येवम् । तद्गता चर्मभस्त्रिकागता । प्रतीतिः
ख्यातिः । अथेयमिति । इयं चर्मभस्त्रिका । अर्च्यमाना पूज्यमाना । प्रातःप्रात-
रिति वीप्सायाम् । प्रतिप्रातःकाले । कल्पः प्रकार: । बद्धाञ्जलये कृतप्रणामाय ।
ग्रावच्छिद्रं पर्वतच्छिद्रम् । 'अद्रिगोत्रगिरिग्रावाचलशैलशिलोच्चयाः' इत्यमरः ।
देवाय राज्ञे । अनिवेद्याकथयित्वा । नोपजीव्या उपजीवितुमशक्या । प्रमाणं निर्णय-
कर्ता । 'प्रमाणं हेतुमर्यादाशास्त्रेयत्ताप्रमातृषु इत्यमरः । वक्ष्यति वदिष्यति । इमां
 

 
भूषणा ।
 
अर्भके' इति केशवः । अनासाद्याविनाश्य । मदन्यत्र चेति । यदि मया गृह्यते चेद्रा-
ह्मणत्वेन सत्यपि मह्यं ददातीयं भस्त्रिका । मदन्येभ्यस्तु वणिग्भ्यो वारमुख्याभ्य
एव वा नान्येभ्यः । एष कल्प एष प्रकार । देवः प्रमाणं देवो निर्णायकः ।
लघुदीपिका ।
 
देवः प्रमाणं देवो निर्णायकः । 'प्रमाणं हेतुमर्यादाशास्त्रेयत्ताप्रमातृषु' । वरिवस्य-
पाठा० - १ 'वारयोषिन्मुख्याभ्य:'. २ 'कल्पविधिः'..