2023-06-11 14:28:00 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

१०६
 
दशकुमारचरितम् ।
 
[ द्वितीयः
 
पालिकाविवाहं मासावधिकमकल्पयत् । उपह्वरे पुनरित्यशिक्षयं

धनमित्रम् – 'उपतिष्ठ सखे, एकान्त एव चै[^१]चर्मरत्नभस्त्रिकामिमां

पुरस्कृत्याङ्गराजम् । आचक्ष्व च जानात्येव देवो नैककोटिसा-

रस्य वसुमित्रस्य मां धनमित्रं नामैकपुत्रम् । सोऽहं मूलहरत्व-

मेत्यार्थिवर्गादस्म्यवज्ञातः । मदर्थमेव संवर्धितायां कुलपालिकायां

मद्दारिद्र्यदोषात्पुनः कुबेरदत्तेन दुहितर्यर्थपतये दित्सितायामुद्वेगा-

दुज्झितुमसूर्नु[^२]पनगरभवं जरद्वनमवगाह्य कण्ठन्यस्तशस्त्रिकः केनापि
जटाधरेण निवार्यैवमुक्तः – 'किं ते साहसस्य मूलम् ?' इति ।
मयोक्तम् – 'अवज्ञासोदर्यं दारिद्र्यम्' इति । स पुनरेवं कृपालु -

रन्वग्रहीत् – 'तात, मूढोऽसि । नान्यत्पापिष्ठतममात्मत्यागात् ।

आत्मानमात्मनानवसाद्यैवोद्धरन्ति सन्तः । सन्त्युपाया धनार्जनस्य
 

 
पदचन्द्रिका ।
 

 
पितरम् । मासावधिकम् । मासोत्तरमित्यर्थः । उपह्वरे । 'रहोऽन्तिकमुपह्वरे' इत्य-
मरः । सखे धनमित्र । चर्मरत्नमुत्तमचर्मं । 'रत्नं स्वजातिश्रेष्ठेऽपि' इति कोशः ।
भस्त्रिका 'भाता' इति भाषया प्रसिद्धा । 'प्रसेविकोच्यते भस्नात्रा' इति । अङ्गराजम् ।

नैककोटिसारस्य । अनेककोटिद्रव्यस्येत्यर्थः । वसुमित्रस्यैकपुत्रम् । आर्थिवर्गाद्याच
कसमूहात् । कुलपालिकायां कन्यायाम् । 'कन्या तु कुलपालिका' इत्यमरः । दित्सि-
तायां दातुमारब्धायाम् । उद्वेगाच्छोकात् । 'उद्वेगौ शोकसंभ्रमौ' इति वैजयन्ती ।

असून्प्राणान् । उज्झितुं त्यक्तुम् । उपनगरभवं नगरसमीपस्थम् । जरद्वनं प्रचारर-
हितं वनम् । केनाप्यविदितनाम्ना । साहसस्योद्योगस्य । अवज्ञा हेलना, तस्याः सोदर्यः ।

बन्धुरित्यर्थ: । 'समानोदर्य-' इत्यमरः । स इति । स जटाधरः । तात ।
अर्भक इत्यर्थः । 'तातस्तु जनकेऽर्भके' इति कोशः । अनवसाद्या विनाश्य । एकोऽप्यु-

 
भूषणा ।
 

 
करणीयानि । ' - प्राह्वेप्रगेऽव्ययेभ्यः' ( ४२३ ) इति ट्युः ।
उपह्वरे रहः ।
चर्मभस्त्रिका । 'भस्त्रा चर्मप्रसेविका' । मूलहरत्वं मूलद्रव्यनाशकत्वम् काष्ठवाहिकलं
त्वं वा । उद्वेगात् । 'उद्वेगौ शोकसंभ्रमौ' इति वैजयन्ती । तात पुत्र । 'तातस्तु जनके-

 
लघुदीपिका ।
 

 
उपह्वरे रहसि । 'रहोऽन्तिकमुपह्वरे' । चर्मभस्त्रा । 'प्रसेविकोच्यते भस्त्रा' । उद्वे-
या
गाच्छोकात् । 'उद्वेगौ शोकसंभ्रमौ' इति वैजयन्ती । तात पुत्र । 'तातस्तु जन-
केऽर्भके' इति केशवः । अनवसाद्य विनाश्य । स एष कल्पः स एष प्रकारः
पाठा०-

 
[^
]G. 'चर्मभस्त्रिका'.
[^
]G. 'उपपौरिकम्'.