This page has not been fully proofread.

१०६
 
दशकुमारचरितम् ।
 
[ द्वितीयः
 
पालिकाविवाहं मासावधिकमकल्पयत् । उपहरे पुनरित्यशिक्षयं
धनमित्रम् – 'उपतिष्ठ सखे, एकान्त एव चैर्मरत्नभस्त्रिकामिमां
पुरस्कृत्याङ्गराजम् । आचक्ष्व च जानात्येव देवो नैककोटिसा-
रस्य वसुमित्रस्य मां धनमित्रं नामैकपुत्रम् । सोऽहं मूलहरत्व-
मेत्यार्थिवर्गादरम्यवज्ञातः । मदर्थमेव संवर्धितायां कुलपालिकायां
मद्दारिद्र्यदोषात्पुनः कुबेरदत्तेन दुहितर्यर्थपतये दित्सितायामुद्वेगा-
दुज्झितुमसूर्नुपनगरभवं जरद्वनमवगाह्य कण्ठन्यस्तशस्त्रिकः केनापि
जटाधरेण निवार्यैवमुक्तः – 'किं ते साहसस्य मूलम् ?' इति ।
मयोक्तम् – 'अवज्ञासोदर्य दारिद्र्यम्' इति । स पुनरेवं कृपालु -
रन्वग्रहीत् – 'तात, मूढोऽसि । नान्यत्पापिष्ठतममात्मत्यागात् ।
आत्मानमात्मनानवसाद्यैवोद्धरन्ति सन्तः । सन्त्युपाया धनार्जनस्य
 
पदचन्द्रिका ।
 
पितरम् । मासावधिकम् । मासोत्तरमित्यर्थः । उपहरे । 'रहोऽन्तिकमुपहरे' इत्य-
मरः । सखे धनमित्र । चर्मरत्नमुत्तमचर्म । 'रत्नं स्वजातिश्रेष्ठेऽपि' इति कोशः ।
भस्त्रिका 'भाता' इति भाषया प्रसिद्धा । 'प्रसेविकोच्यते भस्ना' इति । अङ्गराजम् ।
नैककोटिसारस्य । अनेककोटिद्रव्यस्येत्यर्थः । वसुमित्रस्यैकपुत्रम् । आर्थिवर्गाद्याच
कसमूहात् । कुलपालिकायां कन्यायाम् । 'कन्या तु कुलपालिका' इत्यमरः । दित्सि-
तायां दातुमारब्धायाम् । उद्वेगाच्छोकात् । 'उद्वेगौ शोकसंभ्रम' इति वैजयन्ती ।
असून्प्राणान् । उज्झितुं त्यक्तुम् । उपनगरभवं नगरसमीपस्थम् । जरद्वनं प्रचारर-
हितं वनम् । केनाप्यविदितनाना । साहसस्योद्योगस्य । अवज्ञा हेलना, तस्याः सोदर्यः ।
बन्धुरित्यर्थ: । 'समानोदर्य-' इत्यमरः । स इति । स जटाधरः । तात ।
अर्भक इत्यर्थः । 'तातस्तु जनकेऽर्भके' इति कोशः । अनवसाद्या विनाश्य । एकोऽप्यु-
भूषणा ।
 
करणीयानि । ' - प्राप्रगेऽव्ययेभ्यः' ( ४ । ३ । २३ ) इति ट्युः । उपहरे रहः ।
चर्मभस्त्रिका । 'भस्त्रा चर्मप्रसेविका' । मूलहरत्वं मूलद्रव्यनाशकत्वम् काष्ठवाहिकलं
वा । उद्वेगात् । 'उद्वेगौ शोकसंभ्रमौ' इति वैजयन्ती । तात पुत्र । 'तातस्तु जनके-
लघुदीपिका ।
 
उपहरे रहसि । 'रहोऽन्तिकमुपह्वरे' । चर्मभस्त्रा । 'प्रसेविकोच्यते भस्त्रा' । उद्वे-
याच्छोकात् । 'उद्वेगौ शोकसंभ्रमौ' इति वैजयन्ती । तात पुत्र । 'तातस्तु जन-
केऽर्भके' इति केशवः । अनवसाद्य विनाश्य । स एष कल्पः स एष प्रकारः
पाठा०- १ 'चर्मभस्त्रिका'. २ 'उपपौरिकम्'.