2023-06-11 13:57:08 by Lakshmainarayana achar
This page has been fully proofread once and needs a second look.
यथा त्वमाज्ञापयसि' इति । अथ मयोक्तम् – 'अस्त्येतत् । स्वदेशो
देशान्तरमिति नेयं गणना विदग्धस्य पुरुषस्य । किंतु बालेयम-
नल्पसौकुमार्या, कष्टाः प्रत्यवायभूयिष्ठाश्च कान्तारपथाः । शैथिल्य-
मिव किंचित्प्रज्ञासत्त्वयोरनर्थेनेदृशेन देशत्यागेन संभाव्यते ।
तत्सहानया सुखमिहैव वस्तव्यम् । एहि । नयावैनां स्वमेवा-
वासम्' इति । [^१]अविचारानुमतेन तेन सद्य एवैनां तद्गृहमुपनीय तयैवापसर्पभूतया तत्र मृद्भाण्डावशेषमचोरयाव । ततो निष्पत्य क्वचि[^२]न्मुषितकं निधाय समुच्चलन्तौ [^३]नागरिकसंपाते मार्गपार्श्वशायिनं कंचिन्मत्तवारण[^४]मु- परिपुरुषमाकृष्याध्यारोहाव । [^५]ग्रैवेयप्रोत-
पदचन्द्रिका ।
अथेति । विदग्धस्य चतुरस्य । अनल्पसौकुमार्या । अत्यन्तमुकुमारेत्यर्थः । प्रत्यवायो बाधकम् । 'बाधकं प्रत्यवायः स्यात्' इत्यजयः । कान्तारपथा वनमार्गाः । 'ऋक्पू: -' (५।४।७४) इत्यदन्तता । 'कान्तारं च वने विघ्ने दुर्गमार्गेषुभेदयोः' इति
महीधरः । शैथिल्यं शिथिलता । प्रज्ञा बुद्धिः । सत्त्वं बलम् । आवासं गृहम् । अपसर्पभूतया चरभूतया । 'अपसर्पश्चरः स्पशः' इत्यमरः । तत्र नगरे । अचोरयाव । ।'चुर स्तेये' उत्तमपुरुषद्विवचनम् । तत इति । ततो नगरात् । क्वचित्प्रदेशे। मुषितकं चोरितं वस्तुजातम् । नागरिकसंपाते नगरस्थलोकसंमर्दे । उपरिपुरुषमाधोरणम् आकृष्याधो निःपात्य । ग्रैवेयं कण्ठरज्जुः । 'ग्रीवाविभूषणे रज्जौ ग्रैवं ग्रैवेयमित्यपि'
भूषणा ।
इति । बालेयमित्यादि विषमालंकारः । 'विषमं वर्ण्यते यत्र घटनाननुरूपयोः' इति लक्षणात् । प्रत्यवायो बाधकम् । 'बाधकं प्रत्यवायः स्यात्' इत्यजयः । इवैवार्थे । प्रज्ञासत्त्वयोर्बुद्धिपराक्रमयोः । 'धीः प्रज्ञा शेमुषी मतिः' इत्यमरः । 'सत्त्वोऽस्त्री जन्तुषु क्लीबे व्यवसाये पराक्रमे' इति विश्वः । अपसर्पभूतया चारभूतया । 'अप-
सर्पश्चरः स्पशः । चारश्च गूढपुरुषः' इत्यमरः । निष्पत्य निर्गत्य । 'पत्ऌ गतौ । मुषितकं चोरितधनम् । नागरिकपुरुषसंपाते नगररक्षकपुरुषसंपाते । उपरिपुरुषं पुरुषोन्मानादधिकम् । आकृष्य गजपृष्ठस्थां रजुम् । मत्तगजे सर्वकालं रज्वा
नियन्त्रितत्वात् । ग्रैवेयं कण्ठरज्जुः । 'ग्रीवाविभूषणे रज्जौ ग्रैवं ग्रैवेयमित्यपि' इति ।
लघुदीपिका ।
'बाधकं प्रत्यवायः स्यात्' इत्यजयः । इवैवेत्यर्थे । 'इवावधारणे साम्ये' इति वैजयन्ती । प्रज्ञासत्त्वयोर्बुद्धिधैर्ययोः । 'अपसर्पश्चरः स्पशः' । निष्पत्य । 'पत्ऌ गतौ' । मुषितं चोरितं धनम् । ग्रैवेयं कण्ठरज्जुः । 'ग्रीवाविभूषणे रज्जौ ग्रैवं ग्रैवेय-
[^१]G. 'अविचार्य'.
[^२]G. 'मुषितम्'.
[^३]G. 'नागरिकपुरुषसंपाते', 'नागरिकसंपातेन'
[^४]G. 'उपरिपुच्छम्'
[^५]G. 'ग्रैवेयकप्रतोद.
देशान्तरमिति नेयं गणना विदग्धस्य पुरुषस्य । किंतु बालेयम-
नल्पसौकुमार्या, कष्टाः प्रत्यवायभूयिष्ठाश्च कान्तारपथाः । शैथिल्य-
मिव किंचित्प्रज्ञासत्त्वयोरनर्थेनेदृशेन देशत्यागेन संभाव्यते ।
तत्सहानया सुखमिहैव वस्तव्यम् । एहि । नयावैनां स्वमेवा-
वासम्' इति । [^१]अविचारानुमतेन तेन सद्य एवैनां तद्गृहमुपनीय तयैवापसर्पभूतया तत्र मृद्भाण्डावशेषमचोरयाव । ततो निष्पत्य क्वचि[^२]न्मुषितकं निधाय समुच्चलन्तौ [^३]नागरिकसंपाते मार्गपार्श्वशायिनं कंचिन्मत्तवारण[^४]मु- परिपुरुषमाकृष्याध्यारोहाव । [^५]ग्रैवेयप्रोत-
पदचन्द्रिका ।
अथेति । विदग्धस्य चतुरस्य । अनल्पसौकुमार्या । अत्यन्तमुकुमारेत्यर्थः । प्रत्यवायो बाधकम् । 'बाधकं प्रत्यवायः स्यात्' इत्यजयः । कान्तारपथा वनमार्गाः । 'ऋक्पू: -' (५।४।७४) इत्यदन्तता । 'कान्तारं च वने विघ्ने दुर्गमार्गेषुभेदयोः' इति
महीधरः । शैथिल्यं शिथिलता । प्रज्ञा बुद्धिः । सत्त्वं बलम् । आवासं गृहम् । अपसर्पभूतया चरभूतया । 'अपसर्पश्चरः स्पशः' इत्यमरः । तत्र नगरे । अचोरयाव