2023-06-11 13:53:49 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

१०४
 
दशकुमारचरितम् ।
 
[ द्वितीयः
 
यथा त्वमाज्ञापयसि' इति । अथ मयोक्तम् – 'अस्त्येतत् । स्वदेशो

देशान्तरमिति नेयं गणना विदग्धस्य पुरुषस्य । किंतु बालेयम-

नल्पसौकुमार्या, कष्टाः प्रत्यवायभूयिष्ठाश्च कान्तारपथाः । शैथिल्य-

मिव किंचित्प्रज्ञासत्त्वयोरनर्थेनेदृशेन देशत्यागेन संभाव्यते ।

तत्सहानया सुखमिहैव वस्तव्यम् । एहि । नयावैनां स्वमेवा-

वासम्' इति । [^१]अविचारानुमतेन तेन सद्य एवैनां तद्गृहमुपनीय तयै-
चा
वापसर्पभूतया तत्र मृद्भाण्डावशेषमचोरयाव । ततो निष्पत्य क्वचि-
[^२]न्मुषितकं निधाय समुच्चलन्तौ [^३]नागरिकसंपाते मार्गपार्श्वशा-
यिनं कंचिन्मत्तवारणर्[^४]मु- परिपुरुषमाकृष्याध्यारोहाव । मैवै[^५]ग्रैवेयप्रोत-

 
पदचन्द्रिका ।
 

 
अथेति । विदग्धस्य चतुरस्य । अनल्पसौकुमार्या । अत्यन्तमुकुमारेत्यर्थः । प्रत्य-
वायो बाधकम् । 'बाधकं प्रत्यवायः स्यात्' इत्यजयः । कान्तारपथा वनमार्गाः ।
'ऋक्पू: -' (५७४) इत्यदन्तता । 'कान्तारं च वने विघ्ने दुर्गमार्गेषुभेदयोः' इति

महीधरः । शैथिल्यं शिथिलता । प्रज्ञा बुद्धिः । सत्त्वं बलम् । आवासं गृहम् । अपसर्प-
भूतया चरभूतया । 'अपसर्पश्चरः स्पशः' इत्यमरः । तत्र नगरे । अचोरयाव । 'चुर
स्तेये' उत्तमपुरुषद्विवचनम् । तत इति । ततो नगरात् । क्वचित्प्रदेशे। मुषितकं
चोरितं वस्तुजातम् । नागरिकसंपाते नगरस्थलोकसंमर्दे । उपरिपुरुषमाधोरणम्
आकृष्याधो निःपात्य । ग्रैवेयं कण्ठरज्जुः । 'ग्रीवाविभूषणे रज्जौ ग्रैवं ग्रैवेयमित्यपि'

 
भूषणा ।
 

 
इति । बालेयमित्यादि विषमालंकारः । 'विषमं वर्ण्यते यत्र घटनाननुरूपयोः' इति
लक्षणात् । प्रत्यवायो बाधकम् । 'बाधकं प्रत्यवायः स्यात्' इत्यजयः । इवैवार्थे ।
प्रज्ञासत्त्वयोर्बुद्धिपराक्रमयोः । 'धीः प्रज्ञा शेमुषी मतिः' इत्यमरः । 'सत्त्वोऽस्त्री
जन्तुषु क्लीबे व्यवसाये पराक्रमे' इति विश्वः । अपसर्पभूतया चारभूतया । 'अप-

सर्पश्चरः स्पशः । चारश्च गूढपुरुषः' इत्यमरः । निष्पत्य निर्गत्य । 'पत्ऌ गतौ ।
मुषितकं चोरितधनम् । नागरिकपुरुषसंपाते नगररक्षकपुरुषसंपाते । उपरिपुरुषं
पुरुषोन्मानादधिकम् । आकृष्य गजपृष्ठस्थां रजुम् । मत्तगजे सर्वकालं रज्वा

नियन्त्रित् । तत्वात् । ग्रैवेयं कण्ठरज्जुः । 'ग्रीवाविभूषणे रज्जौ ग्रैवं ग्रैवेयमित्यपि' इति 1

 
लघुदीपिका ।
 

 
'बाधकं प्रत्यवायः स्यात्' इत्यजयः । इवैवेत्यर्थे । 'इवावधारणे साम्ये' इति वैज-
यन्ती । प्रज्ञासत्त्वयोर्बुद्धिधैर्ययोः । 'अपसर्पश्चरः स्पशः' । निष्पत्य । 'पत्ऌ गतौ' ।
मुषितं चोरितं धनम् । त्ग्रैवेयं कण्ठरज्जुः । 'ग्रीवाविभूषणे रज्जोजौ ग्रैवं ग्रैवेय-
पाठा० -

 
[^
]G. 'अविचार्य'.
[^
]G. 'मुषितम्'.
[^
]G. 'नागरिकपुरुषसंपाते', 'नागरि-
कसंपातेन'
[^
]G. 'उपरिपुच्छम्'
[^
'मै]G. 'ग्रैवेयकप्रतोद.