2023-06-11 13:35:15 by Lakshmainarayana achar
This page has been fully proofread once and needs a second look.
न हि त्वय्यन्यदीया लोभादयः । त्वयाद्य साधुतोन्मीलितेति तत्प्राय-
स्त्वत्पूर्वावदानेभ्यो न रोचते । दृष्टमिदानीमौदार्यस्य स्वरूपमिति
त्वदाशयमननुमान्य न युक्तो निश्चयः । त्वयामुना सुकृतेन क्रीतो-
ऽयं दासजन इत्यसारमतिगरीयसा क्रीणासीति स ते प्रज्ञाधिक्षेपः ।
प्रियादानस्य प्रतिदानमिदं शरीरमिति त
मपि त्वयैव दत्तम् । अथवैतावदत्र प्राप्तरूपम् । अद्यप्रभृति
भर्तव्योऽयं दासजनः' इति मम पादयोरपतत् । उत्थाप्य चैनमुर-
सोपश्लिष्याभाषिषि – 'भद्र, काद्य ते प्रतिपत्तिः ?' इति । सोऽ-
भ्यधत्त – 'न शक्नोमि चैनामत्र पित्रोरनभ्यनुज्ञयोपयम्य जीवितुम् ।
अतोऽस्यामेव यामिन्यां देशमिमं जिहासामि । को वाहम्,
★
पदचन्द्रिका ।
विषयविशेषनिष्ठा । अवदानं महत्कर्म । त्वदाशयं त्वदभिप्रायम् । 'छन्दोऽभिप्राय
निधनं मरणम् । इदं मच्छरीरम् । अथवेति । प्राप्तरूपं प्रशस्तं प्राप्तम् । प्रशंसायां
कृत्वा । यामिन्यां रात्रौ । 'रजनी यामिनी तमी' इत्यमरः । जिहासामि त्यक्तुमिच्छामि ।
भूषणा ।
मिति । इदं द्रव्यस्य प्रियायाश्च समर्पणं तं चोरत्वेन व्यवहृतस्य स्वशीलं स्वभावो न
'रुच्यर्थानां – (१।४।३३) इति चतुर्थी । कर्मणां न शोभत इ
परदारपरख
लघुदीपिका
Gr.
}
समाप्तिषु' । अपूर्वावदानेभ्योऽपूर्वविक्रमेभ्यः॥ आशयमभिप्रयम् । 'छन्दोभि