This page has not been fully proofread.

उच्छ्वास : '] पदचन्द्रिका-भूषणा- लघुदीपिकासहितम् । १०३
भाति । नैवमन्येनापि कृतपूर्वमिति प्रतिनियतैव वस्तुशक्तिः ।
न हि त्वय्यन्यदीया लोभादयः । त्वयाद्य साधुतोन्मीलितेति तत्प्राय-
स्त्वत्पूर्वावदानेभ्यो न रोचते । दृष्टमिदानीमौदार्यस्य स्वरूपमिति
त्वदाशयमननुमान्य न युक्तो निश्चयः । त्वयामुना सुकृतेन क्रीतो-
ऽयं दासजन इत्यसारमतिगरीयसा क्रीणासीति स ते प्रज्ञाधिक्षेपः ।
प्रियादानस्य प्रतिदानमिदं शरीरमिति तद्लाभे निधनोन्मुखमिद-
मपि त्वयैव दत्तम् । अथवैतावत्र प्राप्तरूपम् । अद्यप्रभृति
भर्तव्योऽयं दासजनः' इति मम पादयोरपतत् । उत्थाप्य चैनमुर-
सोपश्लिष्याभाषिषि – 'भद्र, काद्य ते प्रतिपत्तिः ?' इति । सोऽ-
भ्यधत्त – 'न शक्नोमि चैनामत्र पित्रोरनभ्यनुज्ञयोपयम्य जीवितुम् ।
अतोऽस्यामेव यामिन्यां देशमिमं जिहासामि । को वाहम्,
 

 
पदचन्द्रिका ।
 
विषयविशेषनिष्ठा । अवदानं महत्कर्म । त्वदाशयं त्वदभिप्रायम् । 'छन्दोऽभिप्राय
आशयः' इत्यमरः । अननुमान्यानुमतिमकारयित्वा । अयं दासजनः । मद्रूप
इत्यर्थः । असारं निःसारम् । अतिगरीयसा बहुतरेण । क्रीणासि गृह्णासि । त इति
तव । प्रज्ञाधिक्षेपो बुद्धिनिन्दा । तदलाभे प्रियाया अप्राप्तौ । निधनोन्मुखम्,
निधनं मरणम् । इदं मच्छरीरम् । अथवेति । प्राप्तरूपं प्रशस्तं प्राप्तम् । प्रशंसायां
रूपप् । उपश्लिष्यालिङ्ग्य । प्रतिपत्तिः कर्तव्यम् । 'प्रतिपत्तिः कर्तव्ये प्रतिभाविज्ञात-
गौरवेष्वपि च' इत्यमरः । न शक्नोमीति । अनभ्यनुज्ञयाननुमत्या । उपयम्य विवाहं
कृत्वा । यामिन्यां रात्रौ । 'रजनी यामिनी तमी' इत्यमरः । जिहासामि त्यक्तुमिच्छामि ।
 
भूषणा ।
 
मिति । इदं द्रव्यस्य प्रियायाश्च समर्पणं तं चोरत्वेन व्यवहृतस्य स्वशीलं स्वभावो न
भवतीत्यतोऽद्भुतवत्प्रतिभाति । प्रतिनियतेति । तत्तव्यक्तिविश्रान्तेत्यर्थः । तत्प्राय
इति । इदं द्रव्यस्य प्रियायाश्च समर्पणं पूर्वावदानेभ्यः पूर्वजातकर्मभ्यो न रोचते ।
'रुयर्थानां – (१।४।३३) इति चतुर्थी । कर्मणां न शोभत इला तात्पर्यम् । एतदुपलभ्य
परदारपरखनिवृत्तिरूपम् । अवदानेभ्यः । 'अवदानं ' इत्यमरः 1 आशय-
मभिप्रायम् । 'छन्दोऽभिप्राय आशयः' इति । अनुमान्यनुमतिमायित्वा । निधनं
मरणम् । प्रतिपत्तिः कर्तव्यता । 'प्रतिपत्तिः कर्तव्ये प्रतिभाविज्ञापौरवेष्वपि च'
लघुदीपिका 14
 
Gr.
 
}
 
समाप्तिषु' । अपूर्वावदानेभ्योऽपूर्वविक्रमेभ्यः॥ आशयमभिप्रयम् । 'छन्दोभि-
प्राय आशयः' । अननुमान्यानुमतिमकारयित्वा । निधनं मरणम् । 'निधनं कुल-
नाशयोः' । 'प्रतिपत्तिः कर्तव्ये प्रतिभाविज्ञावगौरवेष्वपि च । प्रत्यवायो बाधकम् ।