This page has not been fully proofread.

१०२
 
दशकुमारचरितम् ।
 
[ द्वितीयः
 
चोपॠम्याकृतार्थ : 'गत एवायं कालदष्टः । तथा हि स्तब्धश्याव-
मङ्गम्, रुद्धा दृष्टिः, शान्त एवोष्मा । शुचालं वासु,
वोऽग्निसात्करिष्यामः । कोऽतिवर्तते दैवम्' इति सहेतरैः प्रायात् ।
 
उत्थितश्चाहमुदारकाय तां नीत्वाब्रवम् – 'अहमस्मि कोऽपि
तस्करः । त्वद्गतेनैव चेतसा सहायभूतेन त्वामिमामभिसरन्तीमन्त-
रोपलभ्य कृपया त्वत्समीपमनैषम् । भूषणमिदमस्याः' इत्यंशु -
पटलपाटितध्वान्तजालं तद्भ्यर्पितवान् । उदारकस्तु तदादाय
सलज्जं च सहर्ष च ससंभ्रमं च मामभाषत - 'आर्य, त्वयैवेय-
मस्यां निशि प्रिया मे दत्ता । वाक्पुनर्ममापहृता । तथा हि न
जाने वक्तुम्, त्वत्कर्मैतदद्भुतमिति । नै ते स्वशीलमद्भुतवत्प्रति-

 
पदचन्द्रिका ।
 
त्यर्थः । उपक्रम्य चिकित्सित्वा । 'उपक्रमश्चिकित्सा स्यात्' इति वैजयन्ती । तथा
हीति । स्तब्धं निचेष्टम् । श्यावं श्यामलम् । 'श्यावः स्यात्कपिशो धूत्र -' इत्यमरः ।
अग्निसादम्यधीनम् । कोऽतिवर्तते दैवम् । न कोऽपीत्यर्थः । इतरैरन्यैः प्रायादगच्छत् ॥
 
उदारकायेति । धनमित्रनाने । तस्करचोरः । 'तस्करचोरकर्णयोः' इति ।
अन्तरा मार्गमध्ये । अंशुपटलेन किरणजालेन पाटितं नाशितं ध्वान्तजालमन्धकार-
समूहो येनेति तथा । तद्भूषणम् । तथा हीति । अद्भुतमाश्चर्यकारि । प्रतिनियता
भूषणा ।
 
दर्शनालोकनेक्षणम्' इत्यमरः । उपक्रम्य चिकित्सयित्वा । 'उपक्रमश्चिकित्सा स्यात् ।
इति वैजयन्ती । श्याववर्णः कपिशवर्णः । 'श्यावास्यता विषकृतता' इति माधवाचार्यः ।
'श्यावः स्यात्कपिशो धूम्रधूमलौ कृष्णलोहिते' इत्यमरः । अग्निसात्करिष्यामः । 'तदधी-
नवचने' (५१४१५४) इति सातिः । उदारकायेति । 'गत्यर्थकर्मणि-' (२।३।१२)
इति चतुर्थ्यन्तं ब्रुवः कर्म । अन्तरा मध्ये । इतिशब्दः प्रकारे । 'इति हेतुप्रकरणप्र-
कारादि-' इति कोशः । सलजं खरहस्यज्ञानात् । सहर्ष प्रियाप्राप्तेः । ससंभ्रममद्भुत-
कर्मदर्शनात् । व्यभिचारिशबलता (?) । प्रियादत्ता वागपहृता । अत्र परिवृत्तिरलं-
कारः, 'परिवृत्तिर्विनिमयो न्यूनाभ्यधिकयोर्मिंथः' इति लक्षणात् । तथा हीत्यादिना
काव्यलिङ्गमपि । न जान इति । यदिदमद्भुतं वत्कर्म वक्तुं न जाने न ज्ञातुं
शक्नोमि । स्वप्रतिभाया अभावात् । एवं च वाणी हृतैवेति स्पष्टम् । न ते स्वशील-
"लघुदीपिका ।
 
यित्वा । 'उपक्रमश्चिकित्सा स्यात् इति वैजयन्ती । श्यावो विवर्णः । 'श्यावः स्यात्क-
पिशो धूम्रधूमलौ कृष्णलोहिते' । इतिशब्दः प्रकारे । 'इति हेतुप्रकरणप्रकारादि-
पाठा०-१ 'श्याववंर्णाङ्गम् . २ 'ननु'