2023-05-18 02:10:18 by ambuda-bot
This page has not been fully proofread.
उच्छ्वासः ] पदचन्द्रिका-भूषणा- लघुदीपिकासहितम् ।
१०१
त्प्रियावसथम्' इति त्रिचतुराणि पदान्युदचलम् । आपतच्च
दीपिकालोकपरिलुप्यमानतिमिरभारं यष्टिकृपाणपाणि नागरिकबल-
मनल्पम् । व प्रवेपमानां कन्यकामवदम् – 'भद्रे, मा भैषीः ।
अस्त्ययम सिद्वितीयो मे बाहुः । अपि तु मृदुरयमुपायस्त्वदपेक्षया
चिन्तितः । शयेऽहं भावितविषवेगविक्रियः । त्वयाप्यमी वाच्याः
'निशि वयमिमां पुरीं प्रविष्टाः । दुष्टश्च ममैष नायको दर्वीकरेणा-
मुष्मिन्सभागृहकोणे । यदि वः कश्चिन्मत्र वित्कृपालुः स
एनमुज्जीवयन्मम प्राणानाहरेदनाथायाः' इति । सापि बाला
गत्यन्तराभावाद्भयगद्गदखरा बाष्पदुर्दिनाक्षी बद्धवेपथुः कथंकथमपि
गत्वा मदुक्तमन्वतिष्ठत् । अशयिषि चाहं भावितविषविक्रियः ।
तेषु कश्चिन्नरेन्द्राभिमानी मां निर्वर्ण्य मुद्रातन्त्रमन्त्रध्यानादिभि-
पदचन्द्रिका ।
संबोधनम् । आवसथं गृहम् । उदचलं गतवान् । आपतंश्चेति । दीपिका 'दिवटी'
इति लोकप्रसिद्धा । 'दीपिका हस्तदीपः स्यात्' इति वैजयन्ती । अनल्पं बहु ।
त्वदपेक्षया । वदनुरोधेनेत्यर्थः । शये निद्रां करोमि । अमी आगन्तुकाः । निशि
रात्रौ । वयमिति द्वयोरपि बहुवचनम्, 'अस्मदो द्वयोश्च' (१९२/५९) इति । दव-
करेण सर्पेण । 'दवकरो दीर्घपृष्ठो दन्दशूको बिलेशयः' इत्यमरः । सभागृहं बहु-
तरजनावस्थानगृहं तस्य कोणे । मन्त्रविन्मान्त्रिकः । सापीति । गत्यन्तराभावा-
दुपायान्तराभावात् । बाष्पदुर्दिनाक्षी बाष्पव्याप्तनेत्रा । बद्धवेपथुः प्राप्तकम्पा ।
अशयिषि शयितवान् । भाविता प्रकाशिता विषविक्रिया विषविकारो येनेति । नरेन्द्रो
विषवैद्यः । 'नरेन्द्रो वार्तिके राज्ञि विषवैद्येऽपि कथ्यते' इति । निर्वर्ण्य । निरीक्ष्ये-
भूषणा ।
प्रकाशः । दीपिका हस्तदीपः । 'मशाल' इति भाषायाम् । दीपशब्दात्संज्ञायां कन् ।
'दीपिका हस्तदीपः स्यात्' इति वैजयन्ती । नागरिकबलं नगररक्षाकर्तुः भाषया
'कोतवाल' इत्याख्यस्य बलं सैन्यम् । प्रवेपमानां वेपथुमतीम् । तदपेक्षया सात्त्वि-
कभावः । भयानको रसः । बाष्पेण दुर्दिने अन्धीभूते अक्षिणी यस्याः । वयं द्रौ ।
"अस्मदो द्वयोश्च' (१।२/५९ ) इति बहुवचनम् । दवकरः सर्पः । 'दवकरो दीर्घपृष्ठो
दन्दशको बिलेशयः' इत्यमरः । नरेन्द्राभिमानी विषवैद्याभिमानी। 'नरेन्द्रो वार्तिके
राज्ञि विषवैद्येऽपि कथ्यते' इति विश्वप्रकाशः । निर्वर्ण्य निरीक्ष्य । 'निर्वर्णनं तु निघ्यानं
लघुदीपिका ।
'स्यात्' इति वैजयन्ती । अपि तु तथापीत्यर्थः । वयमिति द्वयोरपि बहुवचनम् 'अस्मदो
द्वयोश्च' (१।२।५९) इति । दवकरः सर्पः । दवींकरो दीर्घपृष्ठो दन्दशूको बिलेशयः'
निर्वर्ण्य निरीक्ष्य । 'निर्वर्णनं तु निध्यानं दर्शनालोकनेक्षणम्' । उपक्रम्य चिकित्स-