2023-06-10 15:11:40 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

सत्यथोदारक इति च प्रीतलोकाधिरोपितापर [^१]श्लाघ्यनामनि वरयत्येव तस्मिन्मां तरुणीभूतामधन इत्यदत्त्वार्थपतिनाम्ने कस्मैचिदितरस्मै यथार्थनाम्ने सार्थवाहाय दित्सति मे पिता । तदमङ्गलमद्य किल प्रभाते भावीति ज्ञात्वा प्रागेव प्रियतमदत्तसंकेता वञ्चितस्वजना निर्गत्य बाल्याभ्यस्तेन वर्त्मना मन्मथाभिसरा तदगारमभिसरामि । तन्मां मुञ्च । गृहाणैतद्भाण्डम्' इत्युन्मुच्य मह्यमर्पितवती । दयमानश्चाहमब्रवम् – 'एहि साध्वि, त्वां नयेयं त्व-
 
पदचन्द्रिका ।
 
मातापित्रोरवसाने । निजैः स्वकीयैर्वित्तैरर्थिवर्गाद्याचकसमूहाद्दारिद्र्यं क्रीत्वेव दरिद्रति सति । प्रीतेन लोकेनाधिरोपितं दत्तमुदारक इत्यपरं श्लाघ्यं नाम यस्य तस्मिन् । अधन इति निःस्व इति हेतोः । सार्थवाहाय । 'वैदेशिकः सार्थवाहः' इति । दित्सति दातुमिच्छति । तदमङ्गलमर्थपतिदानरूपम् । प्रभाते प्रातःकाले ।
प्रियतमो धनमित्रनामा तेन दत्तः संकेतो यस्यै सेति । मन्मथो मदनोऽभिसरः सहायो यस्याः सा । 'सहायोऽनुचरः समाः' इत्यमरः । तदगारं तद्गृहम् । अभिसरामि गच्छामि एतद्भाण्डमेतद्भूषणम् । 'भाण्डं भूषाश्वभूषयोः' इत्यमरः । उन्मु-
च्योत्तार्य । दयमानो दयतेऽसौ तथा । कृपावानित्यर्थः । साध्वि पतिव्रते इति
 
भूषणा ।
 
त्रासगद्गदं स्वरभङ्गः सात्त्विकभावः । अर्यवर्यो वैश्यश्रेष्ठः । 'अर्यः स्वामिवैश्ययोः' इति निपातः । अत्रत्याय एतद्देशोद्भवाय । 'वैदेशिक: सार्थवाहो नैगमो वाणिजो वणिक्' इत्यमरः । दित्सति दातुमिच्छति सति । प्रियतमदत्तसंकेता तदगारमभिसरामि । 'कान्तार्थिनी तु याति संकेतं साभिसारिका' इत्यमरः । नेयमभि-
सारिकेति वयम् । तादृशरतिसुखेच्छयाभिसरणाभावात् । 'रतार्थिनी तु संकेतं याति या साभिसारिका' इति रसरत्नहारः । अभिसर: सहाय: । 'अनुप्लवः सहायश्चानुचरोऽभिसरः समाः' इत्यमरः । भाण्डं भूषणम् । 'भाण्डं भूषणमात्रेऽपि ' इति विश्व -
 
लघुदीपिका ।
 
आलोकं प्रकाशम् । 'स्मृतः प्रकाश आलोको द्योतकश्च समास्त्रयः' इति हलायुधः । निःसंबाधं निःसंमर्दम् । 'सकटं ना तु संबाधः' । अर्यवर्यो वैश्यश्रेष्ठः । 'अर्यः स्वामिवैश्ययोः' इति निपातितः । अत्रत्यायैतद्देशसंभवाय । अव्ययात्त्यप् । वैदेशिकः
सार्थवाहः । दित्सति दातुमिच्छति । अभिसरः सहायः । 'अनुप्लवश्चानुसरः सहायोऽभिसरः समाः' भाण्डं भूषणम् । 'भाण्डं भूषाश्वभूषयोः' । 'दीपिका हस्तदीप
 
[^१]G. 'नाम। निवारयत्येव'.