2023-06-10 15:06:48 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

१००
 
दशकुमारचरितम् ।
 
[ द्वितीयः
 
सत्यथोदारक इति च प्रीतलोकाधिरोपितापर [^१]श्लाध्यैघ्यनामनि वरय-
त्येव तस्मिन्मां तरुणीभूतामधन इत्यदत्त्वार्थपतिनाम्ने कस्मैचिदि-
तरस्मै यथार्थनाने सार्थवाहाय दित्सति मे पिता । तदमङ्गलमद्य
किल प्रभाते भावीति ज्ञात्वा प्रागेव प्रियतमदत्तसंकेता वश्ञ्चित-
स्वजना निर्गत्य बाल्याभ्यस्तेन वर्त्मना मन्मथाभिसरा तद्गारम-
भिसरामि । तन्मां मुञ्च । गृहाणैतद्भाण्डम्' इत्युन्मुच्य मह्यम-
र्पितवती । दयमानश्चाहमब्रवम् – 'एहि साध्वि, त्वां नयेयं त्व-

 
पदचन्द्रिका ।
 

 
मातापित्रोरवसाने । निजैः स्वकीयैर्वित्तैरर्थिवर्गाद्याचकसमूहाद्दारिद्र्यं क्रीत्वेव
दरिद्रति सति । प्रीतेन लोकेनाधिरोपितं दत्तमुदारक इत्यपरं श्लाघ्यं नाम यस्य
तस्मिन् । अधन इति निःस्व इति हेतोः । सार्थवाहाय । 'वैदेशिकः सार्थवाहः'
इति । दित्सति दातुमिच्छति । तदमङ्गलमर्थपतिदानरूपम् । प्रभाते प्रातःकाले ।

प्रियतमो धनमित्रनामा तेन दत्तः संकेतो यस्यै सेति । मन्मयोथो मदनोऽभिसरः
सहायो यस्याः सा । 'सहायोऽनुचरः समाः' इत्यमरः । तदगारं तद्गृहम् । अभि-
सरामि गच्छामि एतद्भाण्डमेतद्भूषणम् । 'भाण्डं भूषाश्वभूषयोः' इत्यमरः । उन्मु-

च्योत्तार्य । दयमानो दयतेऽसौ तथा । कृपावानित्यर्थः । साध्वि पतिव्रते इति
 

 
भूषणा ।
 

 
त्रासगद्गदं स्वरभङ्गः सात्त्विकभावः । अर्यवर्यो वैश्यश्रेष्ठः । 'अर्यः स्वामिवैश्ययोः'
इति निपातः । अत्रत्याय एतद्देशोद्भवाय । 'वैदेशिक : सार्थवाहो नैगमो वाणिजो
वणिक्' इत्यमरः । दित्सति दातुमिच्छति सति । प्रियतमदत्तसंकेता तदगारम-
भिसरामि । 'कान्तार्थिनी तु याति संकेतं साभिसारिका' इत्यमरः । नेयमभि-

सारिकेति वयम् । तादृशरतिसुखेच्छयाभिसरणाभावात् । 'रतार्थिनी तु संकेतं याति
या साभिसारिका' इति रसरत्नहारः । अभिसर: सहाय: । 'अनुप्लवः सहायश्चानुच-
रोऽभिसरः समाः' इत्यमरः । भाण्डं भूषणम् । 'भाण्डं भूषणमात्रेऽपि ' इति विश्व -

 
लघुदीपिका ।
 

 
आलोकं प्रकाशम् । 'स्मृतः प्रकाश आलोको द्योतकश्च समास्त्रयः' इति हलायुधः ।
निःसंबाधं निःसंमर्दम् । 'सकटं ना तु संबाधः' । अर्यवर्यो वैश्यश्रेष्ठः । 'अर्यः स्वामि-
वैश्ययोः' इति निपातितः । अत्रत्यायैतद्देशसंभवाय । अव्ययात्त्यप् । वैदेशिकः

सार्थवाहः । दित्सति दातुमिच्छति । अभिसरः सहायः । 'अनुप्लवश्चानुसरः सहा-
योऽभिसरः समाः' भाण्डं भूषणम् । 'भाण्डं भूषाश्वभूषयोः' । 'दीपिका हस्तदीप
 
पाठा०-

 
[^
]G. 'नाम। निवारयत्येव'.