2023-06-10 14:51:47 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

करणयुक्तो गत्वा कस्यचिल्लुब्धेश्वरस्य गृहे संधिं छित्त्वा [^१]पटभाससूक्ष्मच्छिद्रालक्षितान्तर्गृहप्रवृत्तिरव्यथो निजगृहमिवानुप्रविश्य नीवीं सारमहतीमादाय निरगाम् । नीलनीरदनिकरपीवर [^२]तमोनिबिडितायां राजवीथ्यां झटिति शतह्रदासंपातमिव क्षणमालोकमलक्षयम् । अथासौ नगरदेवतेव नगरमोषरोषिता निःसंबाधवेलायां निःसृता संनिकृष्टा काचिदुन्मिषद्भूषणा युवतिराविरासीत् । 'कासि वासु, क्व यासि ?" इति सदयमुक्ता त्रासगद्गदमगादीत् – 'आर्य, पुर्यस्यामर्यवर्यः कुबेरदत्तनामा वसति । अस्म्यहं तस्य कन्या । मां जातमात्रां धनमित्रनाम्नेऽत्रत्यायैव कस्मैचिदिभ्यकुमारायान्वजानाद्भार्यां मे पिता । स पुनरस्मिन्नत्युदारतया पित्रोरन्ते वित्तैर्निजैः [^३]क्रीत्वेवार्थिवर्गाद्दारिद्र्यं दरिद्रति
 
पदचन्द्रिका ।
 
निर्वापणशलभभाण्डम् । संधिमिष्टकासंधिम् । पटभासो जालान्तरम् । 'पटभासः प्रेक्षणकम्' इति वैजयन्ती । नीवीं मूलवणिग्धनम् । 'मूलद्रव्यं परिपणो नीवी' इति हैमः । नीलेति । नीला ये नीरदा मेघास्तेषां निकरः समूहस्तेन पीवरं
पुष्टं यत्तमोऽन्धकारस्तन्निबिडितायाम् । शतह्रदा विद्युत् । 'शम्पा शतह्रदा' इत्यमरः । संपातः स्फुरणम् । 'संपातस्तु समुद्गमः' इत्यमरः । आलोकं प्रकाशम् । अलक्षयम् । लक्षितवानित्यर्थः । अथेति । असौ विद्युत्प्रकाशः । नगरस्य मोषश्चौर्यं
तेन रोषिता रुष्टा नगरदेवतेव । निःसंबाधं निःसंकटम् । 'संकटं ना तु संबाधः' इत्यमरः । उन्मिषद्भूषणा प्रस्फुरद्भूषणा । त्रासगद्गदं भयविह्वलम् । अगादीत् । 'गद व्यक्तायां वाचि' । अर्यवर्यो वैश्यवर्यः । 'अर्यः स्वामिवैश्ययोः' इति निघण्टुः । अत्र-
त्यायैतद्देशभवाय । अव्ययात्त्यप् । धनमित्रनाम्ने । इभ्यकुमाराय धनिककुमाराय । अन्वजानात् प्रतिज्ञातवान् । स इति । स पिता । अस्मिन् धनमित्रे । पित्रोरन्ते
 
भूषणा ।
 
प्रेक्षणसाधनम् । 'पटभासः प्रेक्षणकम्' इति वैजयन्ती । नीवी मूलधनम् । शतह्रदा विद्युत् । 'शम्पा शतह्रदा' इत्यमरः । संपातः स्फुरणम् । 'संपातस्तु समुद्गमः' इति वैजयन्ती । आलोकः प्रकाशः । 'स्मृतं प्रकाश आलोको द्योतकश्च समाश्रये' इति हलायुधः । निःसंबाधं निःसंमर्दम् । 'संकटं ना तु संबाधः' इत्यमरः ।
 
लघुदीपिका ।
 
रज्जुः । भ्रमरकरण्डकं दीपनिर्वापणशलभभाण्डम् । 'पटभासः प्रेक्षणकम्' इति वैजयन्ती । नीवी मूलवणिग्धनम् । संपातः स्फुरणम् । 'संपातस्तु समुद्गमः' ।
 
[^१]G. 'पटहाक्ष'.
[^२]G. 'तिमिरनिबिडपीडितायाम्'.
[^३]G. 'क्रीत्वैव'.