This page has not been fully proofread.

उच्छ्वासः ] पदचन्द्रिका-भूषणा- लघुदीपिकासहितम् ।
 
९९
 
करणयुक्तो गत्वा कस्यचिल्लुब्धेश्वरस्य गृहे संधिं छित्त्वा पेटभा-
ससूक्ष्मच्छिद्रालक्षितान्तर्गृहप्रवृत्तिरव्यथो निजगृहमिवानुप्रविश्य
नीवीं सारमहतीमादाय निरगाम् । नीलनीरदनिकरपीवरतमो-
निबिडितायां राजवीभ्यां झटिति शतहदासंपातमिव क्षणमालो-
कमलक्षयम् । अथासौ नगरदेवतेव नगरमोषरोषिता निःसंबा-
धवेलायां निःसृता संनिकृष्टा काचिदुन्मिषद्भूषणा युवतिरावि-
रासीत् । 'कासि वासु, क यासि ?" इति सदयमुक्ता त्रासगद्गद्-
मगादीत् – 'आर्य, पुर्यस्यामर्यवर्यः कुबेरदत्तनामा वसति ।
अस्म्यहं तस्य कन्या । मां जातमात्रां धनमित्रनाम्नेऽत्रत्यायैव
कस्मैचिदिभ्यकुमारायान्वजानाद्भार्या मे पिता । स पुनरस्मिन्न-
त्युदारतया पित्रोरन्ते वित्तैर्निजैः क्रीत्वेवार्थिवर्गाद्दारिद्र्यं दरिद्रति
पदचन्द्रिका ।
 
1
 

 
निर्वापणशलभभाण्डम् । संघिमिष्टकासंधिम् । पटभासो जालान्तरम् । 'पटभासः
प्रेक्षणकम्' इति वैजयन्ती । नीवीं मूलवणिग्धनम् । 'मूलद्रव्यं परिपणो नीवी'
इति हैमः । नीलेति । नीला ये नीरदा मेघास्तेषां निकरः समूहस्तेन पीवरं
पुष्टं यत्तमोऽन्धकारस्तन्निबिडितायाम् । शतहदा विद्युत् । 'शम्पा शतहदा'
इत्यमरः । संपातः स्फुरणम् । 'संपातस्तु समुद्रमः' इत्यमरः । आलोकं प्रकाशम् ।
अलक्षयम् । लक्षितवानित्यर्थः । अथेति । असौ विद्युत्प्रकाशः । नगरस्य मोषश्चौर्य
तेन रोषिता रुष्टा नगरदेवतेव । निःसंबाधं निःसंकटम् । 'संकटं ना तु संबाधः' इत्य-
मरः । उन्मिषद्भूषणा प्रस्फुरदूषणा । त्रासगद्गदं भयविह्वलम् । अगादीत् । 'गद
व्यक्तायां वाचि' । अर्यवर्यो वैश्यवर्यः । 'अर्यः खामिवैश्ययोः' इति निघण्टुः । अत्र-
त्यायैतद्देशभवाय । अव्ययात्त्यप् । धनमित्रनाम्ने । इभ्यकुमाराय धनिककुमाराय ।
अन्वजानात् प्रतिज्ञातवान् । स इति । स पिता । अस्मिन् धनमित्रे । पित्रोरन्ते
 

 

 
3
 
भूषणा ।
 
प्रेक्षणसाधनम् । 'पटभासः प्रेक्षणकम्' इति वैजयन्ती । नीवी मूलधनम् । शतहृदा
विद्युत् । 'शम्पा शतहदा' इत्यमरः । संपातः स्फुरणम् । 'संपातस्तु समुद्गमः'
इति वैजयन्ती । आलोकः प्रकाशः । 'स्मृतं प्रकाश आलोको द्योतकश्च समा-
श्रये' इति हलायुधः । निःसंबाधं निःसंमर्दम् । 'संकटं ना तु संबाधः' इत्यमरः ।
लघुदीपिका ।
 
रज्जुः । भ्रमरकरण्डकं दीपनिर्वापणशलभभाण्डम् । 'पटभासः प्रेक्षणकम्' इति
वैजयन्ती । नीवी मूलवणिग्धनम् । संपातः स्फुरणम् । 'संपातस्तु समुद्गमः' ।
पाठा० - १ 'पटहाक्ष'. २ 'तिमिरनिबिडपीडितायाम्'. ३ 'क्रीत्वैव'.