2023-06-06 16:39:11 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

तन्मुखेन च सारतः कर्मतः शीलतश्च सकलमेव नगरमवधार्य
धूर्जटिकण्ठकल्माषकालतमे तमसि नीलनिवसनार्धोरुकपरिहितो
बद्धतीक्ष्णकौक्षेयकःफणिमुखकाकलीसंदंशकपुरुषशीर्षकयोगचू-र्णयोगवर्तिकामानसूत्रकर्कटकरज्जुदीपभाजनभ्रमरकरण्डकप्रभृत्यनेकोप-
 
पदचन्द्रिका ।
 
धूर्जटीति ॥ धूर्जटिर्महादेवः । 'धूर्जटिर्नीललोहितः' इत्यमरः । तत्कण्ठे यत्कल्माषं कालिमा । 'सितेतरः स्यात्कल्माषम्' इति शाश्वतः । तद्वत्कालत मेऽतिश्यामले । नीलनिवसनं नीलवस्त्रं तस्य यदर्धोरुकमवगुण्ठनवस्त्रम् । 'अर्धोरुकं वरस्त्रीणाम्' इत्यमरः । परिहित आच्छादितः । कौक्षेयकः करवालः । 'कौक्षेयको मण्डलाग्र: करवालः कृपाणवत्' इत्यमरः । येनेति तथा । फणिमुखं सुरुङ्गासाधनम् । काकली कर्तरी । संदंशकः भाषया 'सांडशी' इति । पुरुषशीर्षकं पुरुषशीर्षप्रतिकृतिकाष्ठमयं शिरः । योगवर्तिकोपायाञ्जनम् । मानसूत्रं प्रमाणरज्जुः । कर्कटको यन्त्रसाधनम् । भाषया 'कर्काटक' इत्युच्यते । कर्कटकस्त्वहौ । 'बिल्ये कुचन्दने वृक्षे यन्त्राङ्गे रक्तचन्दने' इति महीपः । रज्जुरारोहणसाधनम् । दीपभाजनं भ्रमरकरण्डकं दीप-
 
भूषणा ।
 
दुरोदरावतारो द्यूतकारावतारः । 'दुरोदरो द्यूतकारे पणे द्यूते दुरोदरम्' इत्यमरः । सारतो बलात् । 'सारो बले स्थिरांशे च' इत्यमरः । कल्माषः । 'चित्रं किर्मीरकल्माष - ' इत्यमरः । नीलवसनार्धोरुकपरिहितश्छादितः । 'अर्धोरुकं वरस्त्रीणां
स्याच्चण्डातकमंशुकम्' इत्यमरः । कौक्षेयकोऽसिः । 'कौक्षेयको मण्डलाग्र:' इत्यमरः । 'कुलकुक्षिग्रीवाभ्यः -' (४।२।९६ ) इति ढकञ् । फणिमुखं खननसाधनम् । 'सवरी' इति भाषायाम् । काकली । 'निद्राति जागर्ति वेति बोधनार्थं कलमधुरध्वनिवाद्य-
विशेषः' इति गुरुचरणाः । 'काकली तु कले सूक्ष्मे ध्वनौ तु मधुरास्फुटे' इत्यमरः । वाद्ये भक्तिः । संदंशकः 'सांडशी' इति भाषायाम् । पुरुषशीर्षकं पुरुषशीर्षप्रतिकृतिकाष्ठमयं शिरः । 'इवे प्रतिकृतौ (५।३।९६ ) इति कन् । चूर्णं निघ्यञ्जनौषधिमूलादिचूर्णम् । योगवर्तिका यस्याः प्रज्वालनात्सर्वत्र सर्पा एव लोचनगोचरा भव-
न्ति । यत्प्रभया मोहमुपयान्ति जनाः सा । मानसूत्रं विस्तारायाममानार्थं सूत्रम् । रजुरालम्ब्यावरोहणार्थम् । भ्रमरकरण्डकं दीपनिर्वापकशलभभाजनम् । पटभास-
 
लघुदीपिका ।
 
पूर्णम् । देविष्यामि क्रीडिष्यामि । 'दिवु क्रीडादौ' । व्यत्यजषत् व्यतिषक्तोऽभवत् । 'अर्धोरुकं वरस्त्रीणां स्याच्चण्डातकमंशुकम्' । परिहित आच्छादितः । कौक्षेयकोऽसिः । 'कौक्षेयको मण्डलाग्र: करवालः कृपाणवत्' । फणिमुखं सुरुङ्गासाधनम् । काकली कर्तरी । संदंशक: सांडसी । पुरुषशीर्षकं पुरुषशीर्षप्रतिकृति-
काष्ठमयं शिरः । योगवर्तिकोपायाञ्जनम् । 'वर्तिकाञ्जनतूलिके' । मानसूत्रं प्रमाण-