This page has not been fully proofread.


 
भूषणा – अस्याः पुस्तकमेकं रा. निरन्तरोपाहगोविन्दशास्त्रिणां
संग्रह उपलब्धम् । अन्यच्चैतत्पुस्तकप्रतिकृतिरूपं खसंग्रहस्थं रा. खाडि -
लकरोपाह्न - आपाशास्त्रिभिर्दत्तम् । तृतीयं तावत् एल्फिन्स्टनविश्व-
विद्यालयस्य कोशभाण्डागारादस्मन्मित्रवर्यैः रा. श्रीधरभाण्डारकर सुज्ञैः
प्रेषितं च । इदमपि गोविन्दशास्त्रिणां पुस्तकप्रतिकृतिरूपमेव । टीके-

यमस्माभिः प्रथमपरिशिष्टे विनिहिता ।
 
लघुदीपिका–अस्याः पुस्तकमेकं जयपुरी स्थमित्रवर्यैः कै. पण्डित-
दुर्गाप्रसादमहाशयैस्तत्रत्यपण्डितसरयूप्रसादमहाशयानां संग्रहात्प्रेषितम् ।
अस्मिन्नेव पञ्चमोच्छृासस्यान्तिमो भागष्षष्ठोच्छ्छ्रासस्यारम्भश्च त्रुटितोऽन्य-
त्सर्वं समग्रं चास्ति । परंतु मूलं चानेकस्थलेष्वशुद्धमुपलभ्यते । विनान्य-
पुस्तकप्रात्येदं शुद्धं न भवेदेव । टीकैषास्माभिर्द्वितीयपरिशिष्टे दत्ता ।
 
एवमेव ये सहृदयसद्गृहस्था अस्माकं ग्रन्थादिदानेनान्य विधया
चोपाकुर्वन् तेषां च कृतज्ञा भूत्वैवमेव सहृदय सुहृदोऽस्माकं प्रतिवार-
मुपकृत्यास्मत्सकाशात्काव्यनाटकग्रन्थप्रकाशनात्मक सेवामङ्गीकुर्युरिति
सविनयमभ्यर्थयामहे ।
 
EXAM