2023-06-06 15:56:35 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

नानि ग्लहप्रभेदवर्णनानि, द्रव्यसंविभागौदार्यम्, अन्तरान्तराश्लील-
प्रायान्कलकलान्, इत्येतानि चान्यानि चानुभवन्न तृप्तिमध्य-
गच्छम् । अहसं च किंचित्प्रमाददत्तशारे क्वचित्कितवे । प्रतिकित-
वस्तु निर्दहन्निव क्रोधताम्रया दृशा मामभिवीक्ष्य 'शिक्षयसि रे
द्यूतवर्त्म हासव्याजेन । आस्तामयमशिक्षितो वराकः । त्वयैव
तावद्विचक्षणेन देविष्यामि' इति द्यूताध्यक्षानुमत्या व्यत्यषजत् ।
मया जितश्चासौ षोडशसहस्राणि दीनाराणाम् । तदर्धं सभिकाय
सभ्येभ्यश्च दत्त्वार्धं स्वीकृत्योदतिष्ठम् । उदतिष्ठंश्च तत्र गतानां
हर्षगर्भाः प्रशंसालापाः । प्रार्थयमानसभिकानुरोधाच्च तदगारेऽ- रेऽत्युदारमभ्यवहारविधिमकरवम् । यन्मूलश्च मे दुरोदरावतारः स मे विमर्दको नाम विश्वास्यतरं द्वितीयं हृदयमासीत् ।
 
पदचन्द्रिका ।
 
त्तीकरणे कुशलत्वम् । उच्चावचान्यनेकप्रकाराणि । 'उच्चावचं नैकभेदम्' इत्यमरः । प्रलोभनानि मोहनानि । 'मोहनं तु प्रलोभनम्' इत्यमरः । ग्लहः पणः । पणोऽक्षेषु ग्लहो मतः' इत्यमरः । अन्तरान्तरा । मध्ये मध्य इत्यर्थः । अश्लीलप्रायानसभ्यबहुलान् । 'अश्लीलं ग्राम्यभाषणम्' इति वैजयन्ती । कलकलान् कोलाहलान् ।'कोलाहलः कलकलः' इत्यमरः । नाध्यगच्छं न प्रापम् । प्रमाददत्तशारे प्रमादेनानवधानतया दत्तः शारः क्षेपकरणं येन तस्मिन्निति । 'शारः शारिश्च खेलनी' इति महीपः । प्रतिकितवः प्रतिकूलकितवः । द्यूतवर्त्म द्यूतमार्गम् । हासव्याजेन हासमिषेण । अशिक्षितोऽकुशलः । देविष्यामि क्रीडिष्यामीत्यर्थः ।
व्यत्यषजत् व्यतिषक्तोऽभूदिति । दीनाराणां निष्काणाम् । सुवर्णानामिति यावत् । 'दीनारेsपि च निष्कोऽस्त्री' इत्यमरः । तत्र गतानां सभिकसभ्यानां वेति । प्रशंसालापाः प्रशंसावचनानि । अभ्यवहारविधिं भोजनविधिम् । अकरवं कृतवान् ।
दुरोदरं द्यूतम् । 'दुरोदरं द्यूतकारे पण्ये द्यूतेऽपि पाशके' इति महीपः ॥
 
भूषणा ।
 
च्चावचान्यनेकप्रकाराणि । 'उच्चावचं नैकभेदम्' इत्यमरः । मोहनम् । उपप्रलोभनं ग्लहप्रभेदवर्णनानि ।पणस्यान्यथाभाववर्णना । 'अक्षेषु ग्लहः' इति लत्वम् ।
'पणोऽक्षेषु ग्लहः' इत्यमरः । अन्तरान्तरा । मध्ये मध्य इत्यर्थः । कितवो द्युतकार: । 'कितवोऽक्षधूर्तो द्यूतकृत्समाः' इत्यमरः । वराकः शोच्यः । 'वराकः साधुशोच्ययोः' इति वैजयन्ती । दीनाराणां निष्काणाम् । अभ्यवहारविधिं भोजनविधिम् ।
 
लघुदीपिका ।
 
राणि । 'उञ्चावचं नैकभेदम्' । उपप्रलोभनम् 'मोहनं तु प्रलोभनम्' । ग्लहप्रभेदवर्णनानि पणस्यान्यथाभावकथनानि । 'पणोऽक्षेषु ग्लहः स्मृतः' । अश्लीलप्रायानसभ्यप्रायान् । 'अश्लीलं ग्राम्यभाषणम्' इति वैजयन्ती । 'धृताङ्ककर्बुरौ शारौ' ।
कितवोऽक्षधूर्तः । 'कितवो द्यूतकारक : ' । 'वराकः साधुशोच्ययोः' । तावत्सं-
 
९ द० कु०