2023-06-06 15:32:46 by Lakshmainarayana achar
This page has been fully proofread once and needs a second look.
स्थानमून्विधास्यन्कर्णीसुतप्रहिते पथि मतिमकरवम् । [^१]अनुप्र-
विश्य च द्यूतसभामक्षधूर्तै: समगंसि । तेषां च पञ्चविंशति-
प्रकारासु सर्वासु द्यूताश्रयासु कलासु कौशलमक्ष[^२] भूमिहस्तादिषु चात्यन्तदुरुपलक्ष्याणि कूटकर्माणि तन्मूलानि सावलेपान्यधिक्षेपवचनानि, जीवितनिरपेक्षाणि संरम्भविचेष्टितानि, समिकप्रत्ययव्य[^३]वहारान्न्यायबलप्रतापप्राया[^४]नङ्गीकृतार्थसाधनक्षमान्, बलिषु सान्त्वनानि, दुर्बलेषु भर्त्सितानि, [^५]पक्षरचनानैपुणम्, उच्चावचानि [^५]प्रलोभ-
पदचन्द्रिका ।
कान् । प्रकृतिस्थान्स्वभावस्थान् । कर्णीसुतप्रहिते । कर्णीसुतः स्तेयशास्त्रकर्ता । 'कर्णीसुतः करटकः स्तेयशास्त्रस्य कारकः' इति वैजयन्ती । तेन प्रहिते प्रवर्तिते । अक्षधूर्तै: पाशनिपुणैः । 'धूर्तौ निपुणवञ्चकौ' इति वैजयन्ती । समगंसि संगतोऽभवम् । तेषां चेति । तेषामक्षधूर्तानाम् । अक्षभूमिः शारीस्थापनगृहम् ।
कूटकर्माणि कपटकर्माणि, तन्मूलानि कूटकर्ममूलानि । सावलेपानि सगर्वाणि वेगोत्पादितानि । 'सभिको द्यूतकारकः' इत्यमरः । अङ्गीकृतार्थः स्वीकृतार्थस्तत्साधने क्षमान्समर्थान् । पक्षरचनानैपुणं स्वपक्षीकरणे नैपुण्यम् । सर्वलोकानां स्वाय-
भूषणा ।
लाषुकस्तृष्णक्' इत्यमरः । अर्थानां नश्वरत्वं नाशयोग्यत्वम् । प्रकृतिस्थानर्थजन्योन्मादशून्यान् । अमूँल्लुब्धसमृद्धलोकान् । कर्णीसुतः स्तेयशास्त्रप्रवर्तकः । 'कर्णीसुतो मूलदेवो मूलभद्रः कलाङ्कुरः' इति हारावली । अनुप्रपद्य विचारपूर्वकं प्राप्य ।
धूर्तो निपुणः । 'धूर्तौ निपुणवञ्चकौ' इति वैजयन्ती । समगंसि संगतः । अक्षाः पाशाः भूमिस्तत्क्षेपभूमिः हस्तादि च तेषु । 'अक्षो ज्ञानार्थशकटव्यवहारेषु पाशके' इति विश्वः । तन्मूलानि कूटकर्ममूलानि । सावलेपानि सर्गाणि । जीवितनिरपेक्षाणि प्राणनिरपेक्षाणि । सभिकप्रत्ययात्सभिकज्ञानात् । 'सभिका द्यूतकारकाः' इत्यमरः । व्यवहारन्यायबलेति । व्यवहारो लोकानां व्यवहारः, न्यायो युक्तिः, तयोर्बलमुपन्यासः । प्रतापः प्रागल्भ्यं तैः प्रयोजितार्थसाधने क्षमस्तस्मादिति प्रत्ययस्य विशेषणम् । क्वचित् 'प्रत्ययव्यवहारात्' इति पाठः । प्रत्ययजनको व्यवहार इत्यर्थः । पक्षरचनानैपुणं सर्वजनानां स्वपक्षीकरणत्वे नैपुणम् । उ-
लघुदीपिका ।
'श्रीमानिभ्य आढ्य: समृद्धश्च' । कर्णीसुतः स्तेयशास्त्रकर्ता । 'कर्णीसुतः करटकः स्तेयशास्त्रस्य कारकः' इति वैजयन्ती । समगंसि संगतोऽस्मि । अक्षभूमिः शारीस्थापनगृहम् । तन्मूलानि कूटकर्ममूलानि । सावलेपानि सर्गाणि । संरम्भविचेष्टितानि वेगव्युत्पादितानि । सभिकप्रत्ययात्सभिकज्ञानात् । सभिका द्यूतकारकाः' । पक्षरचनानैपुणं सर्वजनानां स्पपक्षीकरणे नैपुणम् । उच्चावचान्यनेक प्रका-
[^१]G. 'अनुप्रपद्य'.
[^२]G. 'अक्षरभ्रमि'.
[^३]G. 'व्यवहारन्याय'.
[^४]G. 'प्रयोजितार्थ;' 'जितार्थे॑.'
[^५]G. 'परपक्षरचनानैपुण्यम्'.
[^६]G. 'उपप्रलोभनानि'.