This page has not been fully proofread.

दशकुमारचरितम् ।
 
[ द्वितीयः
 
स्थानमून्विधास्यन्कर्णीसुतप्रहिते पथि मतिमकरवम् । अनुप्र-
विश्य च द्यूतसभामक्षधूर्तेः समगंसि । तेषां च पञ्चविंशति-
प्रकारासु सर्वासु द्यूताश्रयासु कलासु कौशलमक्षैभूमिहस्तादिषु
चात्यन्तदुरुपलक्ष्याणि कूटकर्माणि तन्मूलानि सावलेपान्यधिक्षेप-
वचनानि, जीवितनिरपेक्षाणि संरम्भविचेष्टितानि, समिकप्रत्ययव्य-
वहारान्यायबलप्रतापप्रायानङ्गीकृतार्थसाधनक्षमान्, बलिषु सान्त्व-
नानि, दुर्बलेषु भर्त्सितानि, पेक्षरचनानैपुणम्, उच्चावचानि प्रलोभ-

 
९६
 
पदचन्द्रिका ।
 
कान् । प्रकृतिस्थान्स्वभावस्थान् । कर्णीसुतप्रहिते । कर्णीसुतः स्तेयशास्त्रकर्ता ।
'कर्णीसुतः करटकः स्तेयशास्त्रस्य कारकः' इति वैजयन्ती । तेन प्रहिते प्रवर्तिते ।
अक्षधूर्तेः पाशनिपुणैः । 'धूत निपुणवञ्चकौ' इति वैजयन्ती । समगंसि संग-
तोऽभवम् । तेषां चेति । तेषामक्षधूर्तानाम् । अक्षभूमिः शारीस्थापनगृहम् ।
कूटकर्माणि कपटकर्माणि, तन्मूलानि कूटकर्ममूलानि । सावलेपानि सगर्वाणि
बेगोत्पादितानि । 'सभिको द्यूतकारकः' इत्यमरः । अङ्गीकृतार्थः स्वीकृतार्थस्तत्सा-
धने क्षमान्समर्थान् । पक्षरचनानैपुणं स्वपक्षीकरणे नैपुण्यम् । सर्वलोकानां स्वाय-
-
 
भूषणा ।
 
लाषुकस्तृष्णक' इत्यमरः । अर्थानां नश्वरत्वं नाशयोग्यत्वम् । प्रकृतिस्थानर्थज-
न्योन्मादशून्यान् । अमूँल्लुब्धसमृद्धलोकान् । कर्णीसुतः स्तेयशास्त्रप्रवर्तकः । 'कर्णी-
सुतो मूलदेवो मूलभद्रः कलाङ्कुरः' इति हारावली । अनुप्रपद्य विचारपूर्वकं प्राप्य ।
धूर्तो निपुणः । 'धूर्ती निपुणवञ्चकौ इति वैजयन्ती । समगंसि संगतः । अक्षाः
पाशाः भूमिस्तत्क्षेपभूमिः हस्तादि च तेषु । 'अक्षो ज्ञानार्यशकटव्यवहारेषु
पाशके' इति विश्वः । तन्मूलानि कूटकर्ममूलानि । सावलेपानि सर्गाणि । जीवित-
निरपेक्षाणि प्राणनिरपेक्षाणि । सभिकप्रत्ययात्सभिकज्ञानात् । 'सभिका द्यूतका-
रकाः' इत्यमरः । व्यवहारन्यायबलेति । व्यवहारो लोकानां व्यवहारः, न्यायो
युक्तिः, तयोर्बलमुपन्यासः । प्रतापः प्रागल्भ्यं तैः प्रयोजितार्थसाधने क्षमस्त-
स्मादिति प्रत्ययस्य विशेषणम् । क्वचित् 'प्रत्ययव्यवहारात्' इति पाठः । प्रत्ययज-
नको व्यवहार इत्यर्थः । पक्षरचनानैपुणं सर्वजनानां स्वपक्षीकरणत्वे नैपुणम् । उ
लघुदीपिका ।
 
'श्रीमानिभ्य आव्यः समृद्धव । कर्णीसुतः स्तेयशास्त्रकर्ता । 'कर्णीसुतः करटकः
स्तेयशास्त्रस्य कारकः' इति वैजयन्ती । समगंसि संगतोऽस्मि । अक्षभूमिः
शारीस्थापनगृहम् । तन्मूलानि कूटकर्ममूलानि । सावलेपानि सर्गाणि । संरम्भ-
विचेष्टितानि वेगव्युत्पादितानि । सभिकप्रत्ययात्सभिकज्ञानात् । सभिका द्यूतका-
रकाः' । पक्षरचनानैपुणं सर्वजनानां खपक्षीकरणे नैपुणम् । उच्चावचान्यनेक प्रका-
पाठा०-१ 'अनुप्रपद्य'. २ 'अक्षरभ्रमि'. ३ 'व्यवहारन्याय'. ४ 'प्रयोजि-
तार्थ;' 'जिवायें' ५ 'परपक्षरचनानैपुण्यम्'. ६ 'उपप्रलोभनानि'.