This page has not been fully proofread.

उच्छ्वास: ] पदचन्द्रिका-भूषणा- लघुदीपिकासहितम् ।
 
९५
 
वर्तन्त । मम तु मन्दभाग्यस्य निन्द्यवेषममन्ददुःखायतनं हरि-
हरहिरण्यगर्भादिदेवतापवादश्रवणनैरन्तर्यात्प्रेत्यापि निरयफलम-
फलं विप्रलम्भप्रायमीदृशमिदमधर्मवर्त्म धर्मवत्समाचरणीयमा-
सीत्' इति प्रत्याकलितस्वदुर्नयः पिण्डीखण्डं विविक्तमेतदासाद्य
पर्याप्तमनु मुखामि' इति । श्रुत्वा चैतदनुकम्पमानोऽब्रवम्-
'भद्र, क्षमस्व । कंचित्कालमत्रैव निवस । निजेन युनेनासावेव
वेश्या यथा त्वां योजयिष्यति तथा यतिष्ये । सन्त्युपायास्तादृशाः '
इत्याश्वास्य तमनूत्थितोऽहम् । नगरमाविशन्नेव चोपलभ्य
लोकवादाल्लुब्धसमृद्धपूर्ण पुरमित्यर्थानां नश्वरत्वं च प्रदर्य प्रकृति-
पदचन्द्रिका ।
 
पथः । 'ऋक्पूः–'इत्यबन्तता । बौद्धमार्गावतरणम् । प्रावर्तन्त प्रवृत्ता आसन् ।
अमन्ददुःखायतनं महद्दुःखस्थानम् । अपवादो निन्दा । श्रवणस्य नैरन्तर्यान्निर-
-
न्तरस्य भावस्तया । अविच्छेदादित्यर्थः । प्रेत्य जन्मान्तरे । 'प्रेत्यामुत्र भवान्तरे'
इत्यमरः । निरयो नरकः । 'स्यान्नारकस्तु नरको निरयो दुर्गतिः स्त्रियाम्' इत्यमरः ।
अफलं निष्फलम् । विप्रलम्भप्रायं वञ्चनप्रायम् । 'विप्रलम्भो विसंवादो विरहो
वञ्चना तथा' इति विश्वः । अधर्मवर्त्माऽधर्ममार्गः । प्रत्याकलितो विचारितः । पिण्डी-
खण्डम् पिण्ड्यशोकः । खण्डं समूहः । 'अशोकः पिण्डिका पिण्डी' इति वैजयन्ती ।
विविक्तमेकान्तम् । पर्याप्तं यथेष्टम् । श्रुत्वा चैतदिति क्षपणकवृत्तान्तम् । अब्रवमवदम्
भद्रेति संबोधनम् । घुम्नेन धनेन । 'हिरण्यं द्रविणं घुम्नम्' इत्यमरः । यतिष्ये ।
'यती प्रयत्ने' । प्रयत्नं करिष्य इत्यर्थः । उपायाः साधनानि । तमिति क्षपणकम् ।
अनु पश्चात् । आविशन्नेवाप्रविशन्नेव । लोकवादाज्जनवाक्याल्लुब्धा वित्तत्यागा-
सहाः । समृद्धाः श्रीमन्तः । 'श्रीमानिभ्य आढ्यः समृद्धश्च इत्यमरः । अल्लो-
लघुदीपिका ।
 
पथ्ये गृहमात्रके' इति विश्वप्रकाशः । प्रत्यवामृशं विचारितवान् । प्रेत्य जन्मान्तरे ।
'प्रेत्यामुत्र भवान्तरे' इत्यमरः । निरयो नरकः । 'स्यान्नारकस्तु नरको निरयो दुर्गतिः
स्त्रियाम्' इत्यमरः । पिण्ड्यशोकः । 'अशोकः पिण्डिका पिण्डी' इति वैजयन्ती
विविक्तमेकान्तः। 'विविक्तविजनच्छन -' इत्यमरः । धुम्रेन धनेन । 'हिरण्यं द्रविणं
धुत्रम्' इत्यमरः । लुब्धाः सतृष्णाश्च ते समृद्धा ऋद्धिमन्तस्तैः पूर्णम् । 'लुब्धोऽभि-
भूषणा ।
 
श्रयः' । प्रेत्य जन्मान्तरेऽपि । 'प्रेत्यामुत्र भवान्तरे' । निरयो नरकः । 'स्यान्नार-
कस्तु नरको निरयो दुर्गतिः स्त्रियाम्' । पिण्ड्यशोकः । 'अशोकः पिण्डिका पिण्डी
इति वैजयन्ती । द्युम्नेन धनेन लुब्धः 'वित्तत्यागासहो लुब्धः' । इभ्यः समृद्धः ॥