2023-06-04 17:07:33 by Lakshmainarayana achar
This page has been fully proofread once and needs a second look.
सा नीलोत्पलमयमिवापाङ्गदामाङ्गे मम मुञ्चन्ती तं जनमपत्रपया-
धोमुखं व्यधत्त । सुभगमन्येन च मया स्वधनस्य स्वगृहस्य [^१]स्व-
गणस्य स्वदेहस्य स्वजीवितस्य च सैवेश्वरीकृता । कृतश्चाहमनया
मलमल्लकशेषः । [^२]हृतसर्वस्वतया चापवाहितः प्रपद्य लोकोपहासलक्ष्यतामक्षमश्च सोढुं धिक्कृतानि पौरवृद्धानामिह[^३] जैनायतने मुनिनैकेनो [^४]पदिष्टमोक्षवर्त्मा सुकर एष वेषो वेशनिर्गतानामित्युदीर्णवैराग्यस्तदपि कौपीनमजहाम् । अथ पुनः प्रकीर्णमलपङ्कः प्रबलकेशलुञ्चनव्यथः प्रकृष्टतमक्षुत्पिपासादिदुःखः स्थानासनशयनभोजनेष्वपि द्विप इव नवग्रहो बलवतीभिर्यन्त्रणाभिरुद्वेजितः प्रत्यवामृशम् । 'अहमस्मि द्विजातिः । अस्वधर्मो ममैष [^५]पाखण्डिपथावतारः । श्रुतिस्मृतिविहितेनैव वर्त्मना मम पूर्वजाः प्रा-
पदचन्द्रिका ।
प्रत्युपगम्य । अपाङ्गं नेत्रप्रान्तम् । तं जनं मत्प्रतिद्वन्द्विनं सुन्दरकम् । अपत्रपया लज्जया । 'लज्जा सापत्रपान्यतः' इत्यमरः । अधोमुखं नम्रवदनम् । व्यधत्त कृतवती । सुभगमिति । आत्मानं सुभगं मनुते स तथा । सैव काममञ्जरी । ईश्वरीकृता स्वामिनीकृता । च्व्यन्तमेतत् । मलमल्लकं कौपीनम् ।
'आच्छादनं संपिधानं कौपीनं मलमलकम्' इति वैजयन्ती । अपवाहितो बहिष्कृतः । प्रपद्य । प्राप्येत्यर्थः । लोकानामुपहासास्तेषां लक्ष्यतां स्थानताम् । धिक्कृतानि तिरस्कारवचनानि । पौरवृद्धानां नागरिकश्रेष्ठानाम् । जैनायतने क्षपणकदेवतागारे । वेशो वेश्यागृहम् । 'वेशो वेश्याजनसमाश्रयः' इत्यमरः । तस्मिन्निर्गतानाम् । उदीर्णवैराग्योऽधिकवैराग्यः । कौपीनमजहामत्याक्षम् । अथेति । प्रकीर्णः प्रसृतः । लुञ्चनमुत्पाटनम् । व्यथा दुःखम् । प्रकृष्टतमः । 'अतिशायने
तमबिष्ठनौ' (५।३।५५ ) इति तमप् । क्षुत्क्षुधा । पिपासा तृषा । द्विप इव हस्तीव । नवग्रहो नूतनं ग्रहणमुपादानं यस्येति । प्रत्यवाभृशम् व्यचारयम् । द्विजातिर्वैश्यः । अस्वधर्मः । स्वधर्मो न भवतीत्यर्थः । पाखण्डिपथावतारः पाखण्डिनां पन्था इति
भूषणा ।
माला । अपाङ्गदाम शृङ्गारानुभावः । अपत्रपया लज्जया । 'मन्दाक्षं ह्रीस्त्रपा व्रीडा लज्जा सापत्रपान्यतः' इत्यमरः । मलमल्लकं कौपीनम् । 'आच्छादनं संपिधानं कौपीनं मलमल्लकम्' इति वैजयन्ती । वेशो वेश्यागृहं । 'वेशो वेश्यागृहे प्रोक्तो ने-
लघुदीपिका ।
'मन्दाक्षं ह्रीस्त्रपा व्रीडा लज्जा सापत्रपान्यतः' । मलमल्लकं कौपीनम् । 'आच्छादनं संपिधानं कौपीनं मलमल्लकम्' इति वैजयन्ती । 'वेशो वेश्याजनसमा-
[^१]G. 'स्वगुणस्य'.
[^२]G. 'हृतसर्वस्वस्तया',
[^३]G. 'इहैवायतने'.
[^४]G. 'उपदिष्ट उत्तमो वर्त्मा'
[^५]G. 'पाषण्ड',