2023-06-04 17:03:53 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

९४
 
दशकुमारचरितम् ।
 
[द्वितीयः
 
सा नीलोत्पलमयमिवापाङ्गदामाङ्गे मम मुञ्चन्ती तं जनमपत्रपया-

धोमुखं व्यधत्त । सुभगंमन्येन च मया स्वधनस्य स्वगृहस्य स्खे [^१]स्व-

गणस्य स्वदेहस्य स्वजीवितस्य च सैवेश्वरीकृता । कृतश्चाहमनया

मलमल्लकशेषः । [^२]हृतसर्वस्वतया चापवाहितः प्रपद्य लोकोपहास -
लक्ष्यतामक्षमञ्श्च सोढुं धिक्कृतानि पौरवृद्धानामिहँह[^३] जैनायतने
मुनिनैकेनोपै [^४]पदिष्टमोक्षवर्त्मा सुकर एष वेषो वेशनिर्गतानामित्युदीर्ण-
वैराग्यस्तदपि कौपीनमजहाम् । अथ पुनः प्रकीर्णमलपङ्कः
प्रबलकेशलुञ्चनव्यथः प्रकृष्टतमक्षुत्पिपासादिदुःखः स्थानासन- -
शयनभोजनेष्वपि द्विप इव नवग्रहो बलवतीभिर्यन्त्रणाभिरुद्वेजितः
प्रत्यवामृशम् । 'अहमस्मि द्विजातिः । अस्वधर्मो ममैष [^५]पाख-
ण्डिपथावतारः । श्रुतिस्मृतिविहितेनैव वर्त्मना मम पूर्वजाः प्रा.
-
 
पदचन्द्रिका ।
 

 
प्रत्युपगम्य । अपाङ्गं नेत्रप्रान्तम् । तं जनं मत्प्रतिद्वन्द्विनं सुन्दरकम् । अपत्र-
पया लज्जया । 'लज्जा सापत्रपान्यतः' इत्यमरः । अधोमुखं नम्रवदनम् ।
व्यत्त कृतवती । सुभगमिति । आत्मानं सुभगं मनुते स तथा । सैव काम-
मञ्जरी । ईश्वरीकृता स्वामिनीकृता । च्व्यन्तमेतत् । मलमल्लकं कौपीनम् ।

'आच्छादनं संपिधानं कौपीनं मलमलकम्' इति वैजयन्ती । अपवाहितो बहि-
ष्कृतः । प्रपद्य । प्राप्येत्यर्थः । लोकानामुपहासास्तेषां लक्ष्यतां स्थानताम् । धिक-
क्कृतानि तिरस्कारवचनानि । पौरवृद्धानां नागरिकश्रेष्ठानाम् । जैनायतने क्षपणक-
देवतागारे । वेशो वेश्यागृहम् । 'वेशो वेश्याजनसमाश्रयः' इत्यमरः । तस्मिन्निर्ग-
तानाम् । उदीर्णवैराग्योऽधिकवैराग्यः । कौपीनमजहामत्याक्षम् । अथेति ।
प्रकीर्णः प्रसृतः । लुञ्चनमुत्पाटनम् । व्यथा दुःखम् । प्रकृष्टतमः । 'अतिशायने

तमबिष्ठनौ' (५।३।५५ ) इति तमप् । क्षुत्क्षुधा । पिपासा तृषा । द्विप इव हस्तीव ।
नवग्रहो नूतनं ग्रहणमुपादानं यस्येति । प्रत्यवाभृशम् व्यचारयम् । द्विजातिर्वैश्यः ।
अस्वधर्मः । स्वधर्मो न भवतीत्यर्थः । पाखण्डिपथावतारः पाखण्डिनां पन्था इति
 

 
भूषणा ।
 

 
माला । अपाङ्गदाम शृङ्गारानुभावः । अपत्रपया लज्जया । 'मन्दाक्षं ह्रीस्त्रपा व्रीडा
लज्जा सापत्रपान्यतः' इत्यमरः । मलमल्लकं कौपीनम् । 'आच्छादनं संपिधानं
कौपीनं मलमल्लकम्' इति वैजयन्ती । वेशो वेश्यागृहं । 'वेशो वेश्यागृहे प्रोक्तो ने-

 
लघुदीपिका ।
 

 
'मन्दाक्षं हीह्रीस्त्रपा व्रीडा लज्जा सापत्रपान्यतः' । मलमल्लकं कौपीनम् । 'आच्छा-
दनं संपिधानं कौपीनं मलमल्लकम्' इति वैजयन्ती । 'वेशो वेश्याजनसमा-

 
[^१]G. 'स्वगुणस्य'.
[^
]G. 'हृतसर्वस्वस्तया',
[^
]G. 'इहैवायतने'.
 
पाठा० - १ 'स्वगुणस्य'

[^४]G
.
 
'उपदिष्ट उत्तमो वर्मा'
[^
]G. 'पाषण्ड',