2023-05-18 02:10:16 by ambuda-bot
This page has not been fully proofread.
उच्छ्वासः ] पदचन्द्रिका-भूषणा-लघुदीपिकासहितम् ।
९३
न चेद्रहस्यमिच्छामि श्रोतुं शोकहेतुम्' इति । सोऽब्रूत – 'सौम्य,
श्रूयताम् । अहमस्यामेव चम्पायां निधिपालितनाम्नः श्रेष्ठिनो
ज्येष्ठसूनुर्वसुपालितो नाम । वैरूप्यात्तु मम विरूपक इति प्रसि-
द्धिरासीत् । अन्यश्चात्र सुन्दरक इति यथार्थनामा कैलागुणैः
समृद्धो वसुना नातिपुष्टोऽभवत् । तस्य च मम च वपुर्वसुनी
निमित्तीकृत्य वैरं वैरोपजीविभिः पौरधूर्तेरुदपाद्यत । त एव
कदाचिदावयोरुत्सवसमाजे स्वयमुत्पादितमन्योन्यावमानमूलमधि-
क्षेपवचनव्यतिकरमुपशमय्य 'न वपुर्वसु वा पुंस्त्वमूलम् अपि तु
प्रकृष्टगणिकाप्रार्थ्ययौवनो हि यः स पुमान् । अतो युवतिललाम-
>
भूता काममञ्जरी यं वा कामयते स हरतु सुभगपताकाम्' इति
व्यवास्थापयन् । अभ्युपेत्यावां प्राहिणुव तस्यै दूतान् । अहमेव
किलामुष्याः स्मरोन्मादहेतुरासम् । आसीनयोश्चावयोर्मामेवोपगम्य
पदचन्द्रिका ।
३
चेद्रहस्यं न चेद्रोप्यम् । तच्छ्रोतुं श्रवणविषयीकर्तुम् । सोऽब्रूतेति । श्रेष्ठिनो
वणिग्वरस्य । अन्यः कश्चन । वसुना नातिपुष्टः । दरिद्र इति यावत् । तस्य
सुन्दरकस्य मम च वपुर्वसुनी शरीरद्रव्ये । वैरोपजीविभिर्वैरणोपजीवन्ति तथोक्तैः ।
उदपाद्यत । उत्पादितमित्यर्थः । त इति । आवयोः स चाहं चावां, तयोरा-
वयोः । स्वयं तैः पौरधूर्तैः । अन्योन्यावमानमूलं परस्परावज्ञानिदानम् । अधि-
क्षेपवचनव्यतिकरं तिरस्कारवाक्यप्रसरम् । उपशमय्य शमयित्वा ।
गणिकयोत्तमवेश्यया प्रार्थ्यमानं यौवनं यस्येति स तथा । युवतिललामभूता युवति-
भूषणभूता । सुभग इति पताकाम् । चिह्नमिति यावत् । व्यवस्थापयन्त्रिति
मर्यादां चक्कुरित्यर्थः । अभ्युपेत्याङ्गीकृत्य । प्राहिणुवागमयाव । अहमिति ।
अमुष्याः काममञ्जर्याः । आसम् 'अस् भुवि' इति । आवयोरुभयोर्मध्ये मां
प्रकृष्ट
भूषणा ।
'शम उपशमे' । 'ल्यपि लघुपूर्वात्' (६॥४॥५६) इति णेरय् । अभ्युपेत्याङ्गीकारं कृत्वा ।
'अङ्गीकाराभ्युपगम-' इत्यमरः । प्रहिणुवागमयाव । 'हि गतौ' । अस्या एनामानेतुम् ।
'क्रियार्थोपपदस्य -' (२।३।१४) इति कर्मणि चतुर्थी । अहमेवेति । 'अर्थवद्रहणे
यस्मान्नानर्थकपरिग्रहः । सुरूपधनिनोर्वेश्या गृह्णाति धनिनं ततः ॥' इति । नक्षत्र-
लघुदीपिका ।
च पादपानां स्कन्धं करितुरंगमानां च इति हलायुधः । अप्राक्षं
पृष्टवान् । अभ्युपेत्यानुमत्य प्राहिणुवागमयाव । अपत्रपया लज्जया J
पाठा० - १ 'कल्याणगुणैः'. २ 'अस्यै'.