This page has not been fully proofread.

९२
 
दशकुमारचरितम् ।
 
[ द्वितीयः
 
दावकल्पे कल्पद्रुमकिसलयावधीरिण्यरुणार्चिषि तं नमस्कृत्य
नगरायोदचलम् । अदर्श च मार्गाभ्याशवर्तिनः कस्यापि क्षपण-
कविहारस्य बहिर्विविते रक्ताशोकखण्डे निषण्णमस्पृष्टसमाधि-
माधिक्षीणमग्रगण्यमनभिरूपाणां कृपणवर्ण कमपि क्षपणकम् ।
उरसि चास्य
शिथिलितमलनिचयान्मुखान्निपततोऽश्रुबिन्दून-
लक्षयम् । अप्राक्षं चान्तिकोपविष्टः– 'क तपः, क च रुदितम् ?
पदचन्द्रिका ।
 
?
 
अनुरूपाभिरनुकूलाभिः । तमनुशय्य । तेन सह शयित्वेत्यर्थः । 'तृतीयार्थे -
( १९४१८५ ) इत्यनोः कर्मप्रवचनीयत्वम् । 'कर्मप्रवचनीययुक्ते - ( २१३१८ )
इति द्वितीया । प्रत्युन्मिषत्युदयति सतीति सप्तम्यन्तम् । उदयः पूर्वपर्वतः ।
एवमेवामरः । तस्य प्रस्थं सानुः
तत्र दावकल्पे वह्निसदृशे । 'दवदावौ
 
। 'सुः प्रस्थः सानुरस्त्रियाम्' इत्यमरः
वनाणिलौ' इत्यमरः । कल्पद्रुमस्य
किसलयम्' इत्यमरः ।
 
कल्पवृक्षस्य । किसलयानि पल्लवानि । 'पल्लवोऽस्त्री
अवधीरिणि तिरस्कारकारिणि । अरुणार्चिषि सूर्ये । तं मुनिम् । नगराय । नगरं
प्रतीत्यर्थः । 'उदश्वरः सकर्मकात्' ( १।३।५३ ) इति उचलम् । चलित इत्यर्थः ।
अदर्शमिति दृष्टवान् । मार्गस्याभ्याशं समीपम् । 'सदेशाभ्याशसविधसंनिकृष्टस-
नीडवत्' इत्यमरः । क्षपणकविहारस्य सौगतावासस्य । बहिर्विविक्ते विजने ।
'विविक्तौ पूतविजनौ' इत्यमरः । रक्ताशोकखण्डे रक्ताशोककदम्बे । 'कदम्बे खण्ड-
मस्त्रियाम्' इत्यमरः । अस्पृष्टसमाधिं नियमरहितम् । 'समाधिर्नियमे ध्याने
इति विश्वः । आधिक्षीणं मानसपीडादुर्बलम् । अनभिरूपाणां कुरूपाणाम् ।
कृपणवर्णं दीनवर्णम् । क्षपणकं बौद्धम् । शिथिलितो मलनिचयो यत्रेति तथा
तस्मात् । अप्राक्षम् । इत्यवोचमित्यर्थः । अन्तिकोपविष्टः समीपस्थितः । न
 
भूषणा ।
 
( १९४१८५ ) इत्यनोः कर्मप्रवचनीयत्वम् । 'कर्मप्रवचनीययुक्ते -' (२१३१८ )
इति द्वितीया । उदयप्रस्थः पूर्वपर्वतसानुः । तद्दावकल्पे वनाग्निसदृशे ।
'उदयः पूर्वपर्वतः' । 'सुः प्रस्थ: सानुरस्त्रियाम्' । 'दवदावौ वनानलौ' इति
त्रिष्वप्यमरः । 'हशिर् प्रेक्षणे' 'इरितो वा' ( ३११८५७ ) इति वाङ् ।
चले: 'ऋदृशोऽङि- ' ( ७८४११६ ) इति गुणेऽमि पूर्वरूपे रूपम्, अदर्शमिति ।
अभ्याशवर्तिनः समीपवर्तिनः । 'सदेशाभ्याशसविध-' इत्यमरः । 'षण्ड
 
च पादपानां' इति हलायुधः । अप्राक्षं पृष्टवान् । उपशमय्य शान्ति नीला
 

 
लघुदीपिका ।
 
2
 
द्वितीया । उदयः । 'अस्तस्तु चरमक्ष्मामृदुदयः पूर्वपर्वतः' 'दृशिर् प्रेक्षणे इत्यस्मा '
द्धातोः इरितो वा' ( ३१११५७ ) इत्यङ्प्रत्यये कृतेऽदर्शयदिति रूपं भवति ।
अभ्याशवर्तिनः समीपवर्तिनः । 'अभ्याशासन्ननिकटसंनिकृष्टसमीपवत्', 'विहारः
सौगतावासे क्रीडायां च' इति वैजयन्ती । षण्डं वृक्षसमूहः । 'षण्ड:
पाठा०-१ 'अभ्यासवर्तिनः'.