2023-06-04 15:09:14 by Lakshmainarayana achar
This page has been fully proofread once and needs a second look.
तया तथावधूतो दुर्मतिः कृतानुशयः शून्यवन्न्यवर्तिष्ट । यस्तयैवं
कृतस्तपस्वी तमेव मां महाभाग, मन्यस्व । [^१]स्वशक्तिनिषिक्तं रागमुद्धृत्य तयैव बन्धक्या महद्वैराग्यमर्पितम् । अचिरादेव शक्य
आत्मा त्वदर्थसाधनक्षमः कर्तुम् । अस्यामेव तावद्वसाङ्गपुर्यां
चम्पायाम्' इति ।
अथ तन्मनश्च्युततमः स्पर्शभियेवास्तं रविरगात् । ऋषिमुक्तश्च
रागः संध्यात्वेनास्फुरत् । तत्कथादत्तवैराग्याणीव कमलवनानि
समकुचन् । अनुमतमुनिशासनस्त्वहममुनैव सहोपास्य संध्या-
मनुरूपाभिः कथाभिस्तमनुशय्य नीतरात्रिः प्रत्युन्मिषत्युदयप्रस्थ -
पदचन्द्रिका ।
वेत्यर्थः । पणबन्धः प्रतिज्ञा । अस्मिन्नर्थे भवद्वशीकरणरूपेऽर्थे । प्रावर्तिषि प्रवर्तिता । सिद्धार्था कृतार्था । अवधूतो दूरीकृतः । कृतानुशयः कृतपश्चात्तापः । 'भवेदनुशयो द्वेषे पश्चात्तापानुबन्धयोः' इति विश्वः । शून्यवच्छून्यहृदय इव । न्यवर्तिष्ट । परावृत्तोऽभूदित्यर्थः । य इति । तपस्व्यनुकम्प्यः । 'तपस्वी
चानुकम्पार्हः' इत्यमरः । महाभागेत्यपहारवर्मसंबोधनम् । तमेव मरीचिमेव । मां मन्यस्व । जानीहीत्यर्थः । स्वशक्तिनिषिक्तं स्वसामर्थ्येन निषिक्तं निक्षिप्तम् । रागमनुरागम् । उद्धृत्य दूरीकृत्य । बन्धक्या पुंश्चल्या । 'पुंश्चली वर्षणी बन्धक्यसती कुलटे त्वरी' इत्यमरः । त्वदर्थसाधनक्षमस्त्वत्प्रयोजनसंपादनसमर्थः ॥
भूषणा ।
चेत्त्वया दास्यं कार्यमिति पणबन्धहेतुकमेतस्मिन्नर्थे प्रवर्तनम् । अनुशयोऽनुतापः 'अनुशयो दीर्घद्वेषानुतापयोः' इत्यमरः । स्वशक्तिः प्रलोभनशक्तिः । बन्धक्याऽसत्या
लघुदीपिका ।
तीयार्थे -' (१।४।८५ ) इत्यनोः कर्मत्वम् । 'कर्मप्रवचनीययुक्ते'
( २।३।८ ) इति
[^१]G. 'स्वनिषिक्तम्'.