2023-06-04 15:03:18 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

उच्छ्वास: ] पदचन्द्रिका - भूषणा-लघुदीपिकासहितम् ।
 
९१
 

 

चास्मिन्नर्थे प्रावर्तिषि । सिद्धार्था चास्मि त्वत्प्रसादात्' इति । स

तया तथावधूतो दुर्मतिः कृतानुशयः शून्यवन्न्यवर्तिष्ट । यस्तयैवं

कृतस्तपस्वी तमेव मां महाभाग, मन्यस्व । स्वै[^१]स्वशक्तिनिषिक्तं राग-
मुद्धृत्य तयैव बन्धक्या महद्वैराग्यमर्पितम् । अचिरादेव शक्य

आत्मा त्वदर्थसाधनक्षमः कर्तुम् । अस्यामेव तावद्वसाङ्गपुर्या
यां
चम्पायाम्' इति ।
 

अथ तन्मनश्च्युततमः स्पर्शभियेवास्तं रविरगात् । ऋषिमुक्तश्च

रागः संध्यात्वेनास्फुरत् । तत्कथादत्तवैराग्याणीव कमलवनानि

समकुचन् । अनुमतमुनिशासनस्त्वहममुनैव सहोपास्य संध्या-

मनुरूपाभिः कथाभिस्तमनुशय्य नीतरात्रिः प्रत्युन्मिषत्युदयप्रस्थ -

 
पदचन्द्रिका ।
 

 
वेत्यर्थः । पणबन्धः प्रतिज्ञा । अस्मिन्नर्थे भवद्वशीकरणरूपेऽर्थे । प्रावर्तिषि
प्रवर्तिता । सिद्धार्था कृतार्था । अवधूतो दूरीकृतः । कृतानुशयः कृतपश्चात्तापः ।
'भवेदनुशयो द्वेषे पश्चात्तापानुबन्धयोः' इति विश्वः । शून्यवच्छून्यहृदय इव ।
न्यवर्तिष्ट । परावृत्तोऽभूदित्यर्थः । य इति । तपस्व्यनुकम्प्यः । 'तपस्वी

चानुकम्पार्हः' इत्यमरः । महाभागेल्त्यपहारवर्मसंबोधनम् । तमेव मरीचिमेव ।
मां मन्यस्व । जानीहीत्यर्थः । स्वशक्तिनिषिक्तं स्वसामर्थ्येन निषिक्तं निक्षिप्तम् ।
रागमनुरागम् । उद्धृत्य दूरीकृत्य । बन्धक्या पुंश्चल्या । 'पुंश्चली वर्षणी बन्ध-
क्यसती कुलटे त्वरी' इत्यमरः । त्वदर्थसाधनक्षमस्त्वत्प्रयोजनसंपादनसमर्थः ॥
 

 
अथेति । तस्य मनुर्यन्मनस्तस्माच्च्युतं गलितं यत्तमोऽज्ञानं तत्स्पर्शभियेव ।
सूर्यतमसोर्वैरादिति भियेवेत्यर्थः । ऋषिमुक्तः स रागः काममञ्जरीविषयकः
संध्यात्वेनास्फुरदिति प्रकटीबभूवेत्यर्थः । तत्कथा मुनिवार्तास्ताभिर्दत्तवैराग्याणीव
कमलवनानि समकुचन् संकुचितानि बभूवुः । इवशब्दोऽत्रोत्प्रेक्षायाम् । अनुमत-
मजी

मङ्गी
कृतं मुनिशासनं येनेति सः । अमुना सह मुनिना सह । सहयोगे तृतीया ।
 

 
भूषणा ।
 
:।
 

 
चेत्त्वया दास्यं कार्यमिति पणबन्धहेतुकमेतस्मिन्नर्थे प्रवर्तनम् । अनुशयोऽनुतापः
'अनुशयो दीर्घद्वेषानुतापयोः' इत्यमरः । स्वशक्तिः प्रलोभनशक्तिः । बन्धक्याऽसत्या

'बन्धक्यसती कुलटा' इत्यमरः । तावत् । तावदेवेत्यर्थः । 'यावत्तावञ्च्च साकल्येऽवधा
धौ मानेऽवधारणे' इत्यमरः । अत्र सिद्धिविषयहेतूत्प्रेक्षालंकार :- संभावना स्यादुत्प्रेक्षा

वस्तुहेतुफलात्मना । उक्तानुक्तास्पदाद्या तु सिद्धासिद्धास्पदे परे ॥ इति लक्षणात् ।
समकुचन्मुकुलितानि । 'कुच निमीलने' । तमनुशय्य तेन सह शयित्वा । 'तृतीयार्थे'

 
लघुदीपिका ।
 

 
तीयार्थे -' (१।४।८५ ) इत्यनोः कर्मत्वम् । 'कर्मप्रवचनीययुक्ते'
( २।३।८ ) इति
 
[^
३१८ ) इति
पाठा० - १
]G. 'स्वनिषिक्तम्'.