2023-06-04 14:50:45 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

सविभ्रमं कृतप्रणामा सस्मितं न्यषीदत् । तत्र काचिदुत्थाय
बद्धाञ्जलिरुत्तमाङ्गना 'देव, जितानयाहम् । अस्यै दास्यमद्यप्रभृत्य -
भ्युपेतं मया' इति प्रभुं प्राणंसीत् । विस्मयहर्षमूलश्च कोलाहलो
लोकस्योदजिहीत । हृष्टेन च राज्ञा महार्है रत्नालंकारैर्महता च
परिबर्हेणानुगृह्य विसृष्टा वारमुख्याभिः पौरमुख्यैश्च गणशः
प्रशस्यमाना स्वभवनमगत्वैव तमृषिमभाषत - 'भगवन् अयम-
ञ्जलिः, चिरमनुगृहीतोऽयं दासजनः । स्वार्थ इदानीमनुष्ठेयः' इति ।
स तु रागादशनिहत इवोद्भ्राम्याब्रवीत् – 'प्रिये, किमेतत् । कुत
इदमौदासीन्यम् । क्व गतस्तव मय्यसाधारणोऽनुरागः' इति ।
अथ सा सस्मितमवादीत् – 'भगवन्, ययाद्य राजकुले मत्तः
पराजयोऽभ्युपेतस्तस्याश्च मम च कस्मिंश्चित्संघर्षे '[^१]मरीचिमाव-
र्जितवतीव श्लाघसे' इति [^२]तयास्म्यहमधिक्षिप्ता ।दास्यपणबन्धेन
 
पदचन्द्रिका ।
 
भगवता मुनिना सह । निषीदेत्युपविशेति । तत्रेति । तत्र सभायाम् । अनया काममञ्जर्या । दास्यं दासत्वम् । अभ्युपेतमङ्गीकृतम् । प्रभुं राजानम् । प्राणंसीत् प्रणाममकरोत् । प्रणताभूदित्यर्थः । विस्मय आश्चर्यम् । 'विस्मयोऽद्भुतमाश्चर्यम्' इत्यमरः । कोलाहलः कलकलः । एवमेवामरः । उदजिहीत । 'ओहाङ् गतौ'
इत्यस्य । उद्गतोऽभूदित्यर्थः । अर्हो मौल्यम् । परिबर्हः परिकरः । सेवकजन इति यावत् । अनुगृह्यानुग्रहं कृत्वा । प्रशस्यमाना स्तूयमाना । अनुगृहीतोऽनुग्रहविषयीकृतः । अयं दासजनो मल्लक्षणः । स्वार्थस्तपश्चरणादिः । स त्विति । स तु मुनिः । अशनिः खङ्गः । 'दम्भोलिरशनिर्द्वयोः' इत्यमरः । उदासीनस्य
भाव औदासीन्यम् । अथेति । संघर्षो वैरम् । आवर्जितवतीव वशीकृतवती-
 
भूषणा ।
 
'कर्णीरथः प्रवहणम्' इत्यमरः, 'तांगा' इति भाषया ।प्राणंसीत्प्रणाममकरोत् । विस्मयहर्षमूलः पौराणां विस्मयमूलः काममञ्जरीवर्ग्याणां हर्षमूल इत्यर्थः । उदजिहीत ।
सर्वत्राभूदिति यावत् । 'ओहाङ् गतौ' । महर्षिमरीचिमिति । मरीचिमावर्जितवतीव मोहितवती सदृशीव श्लाघस इति तयाहमधिक्षिप्ता निन्दिता । यथा ऋषेर्मोहं कृत्वोर्वशी शलाघते तद्वदियमकृतकार्यापि श्लाघत इति भावः । ततस्तन्मोहः क्रियते
 
लघुदीपिका ।
 
प्राणंसीत्प्रणाममकरोत् । बन्धक्याऽसत्या । 'पांसुला बन्धकी स्वै- रिण्यसती पुंश्चली त्वरी' । [ तावत् ] तावदेवेत्यर्थः । 'यावत्तावच्च साकल्येऽवधौ मानेऽवधारणे' । समकुचन्मुकुलितानि । 'कुच निमीलने' । तमनुशय्य तेन सह शयित्वा 'तृ-
 
[^१]G. 'महर्षिं मरीचिम्'.
[^२]G. 'तयाहमधिक्षिप्ता'.