2023-06-04 14:46:16 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

९०
 
दशकुमारचरितम् ।
 
[ द्वितीयः
 
सविभ्रमं कृतप्रणामा सस्मितं न्यषीदत् । तत्र काचिदुत्थाय

बद्धाञ्जलिरुत्तमाङ्गना 'देव, जितानयाहम् । अस्यै दास्यमद्यप्रभृत्य -

भ्युपेतं मया' इति प्रभुं प्राणंसीत् । विस्मयहर्षमूलञ्श्च कोलाहलो

लोकस्योद जिद्दीहीत । हृष्टेन च राज्ञा महाह्रैर्है रत्नालंकारैर्महता च

परिबर्हेणानुगृह्य विसृष्टा वारमुख्याभिः पौरमुख्यैश्च गणशः

प्रशस्यमाना स्वभवनमगत्वैव तमृषिमभाषत - 'भगवन् अयम-

ञ्जलिः, चिरमनुगृहीतोऽयं दासजनः । स्वार्थ इदानीमनुष्ठेयः' इति ।

स तु रागादशनिहत इवोद्धाभ्राम्याब्रवीत् – 'प्रिये, किमेतत् । कुत


इदमौदासीन्यम् । क्व गतस्तव मय्यसाधारणोऽनुरागः' इति ।

अथ सा सस्मितमवादीत् – 'भगवन्, ययाद्य राजकुले मत्तः

पराजयोऽभ्युपेतस्तस्याश्च मम च कस्मिंश्चित्संघर्षे '[^१]मरीचिमाव-

र्
जितवतीव श्लाघसे' इति तै[^२]तयास्म्यहमधिक्षिप्ता । दास्यपणबन्धेन

 
पदचन्द्रिका ।
 

 
भगवता मुनिना सह । निषीदेत्युपविशेति । तत्रेति । तत्र सभायाम् । अनया
काममञ्जर्या । दास्यं दासत्वम् । अभ्युपेतमङ्गीकृतम् । प्रभुं राजानम् । प्राणंसीत्
प्रणाममकरोत् । प्रणताभूदित्यर्थः । विस्मय आश्चर्यम् । 'विस्मयोऽद्भुतमाश्चर्यम्'
इत्यमरः । कोलाहलः कलकलः । एवमेवामरः । उदजिहीत । 'ओहाङ् गतौ'

इत्यस्य । उद्गतोऽभूदित्यर्थः । अर्कोहो मौल्यम् । परिबर्हः परिकरः । सेवकजन
इति यावत् । अनुगृह्यानुग्रहं कृत्वा । प्रशस्यमाना स्तूयमाना । अनुगृहीतोऽनु-
ग्रहविषयीकृतः । अयं दासजनो मल्लक्षणः । स्वार्थस्तपश्चरणादिः । स त्विति ।
स तु मुनिः । अशनिः खङ्गः । 'दम्भोलिरशनिर्द्वयोः' इत्यमरः । उदासीनस्य

भाव औदासीन्यम् । अथेति । संघर्षो वैरम् । आवर्जितवतीव वशीकृतवती-

 
भूषणा ।
 

 
'कर्णीरथः प्रवहणम्' इत्यमरः, 'तांगा' इति भाषया । प्राणंसीत्प्रणाममकरोत् । विस्म-
यहर्षमूलः पौराणां विस्मयमूलः काममञ्जरीवर्ग्याणां हर्षमूल इत्यर्थः । उदजिहीत ।

सर्वत्राभूदिति यावत् । 'ओहाङ् गतौ' । महर्षिमरीचिमिति । मरीचिमावर्जितव-
तीव मोहितवती सदृशीव श्लाघस इति तयाहमधिक्षिप्ता निन्दिता । यथा ऋषेर्मोहं
कृत्वोर्वशी लाघते तद्वदियमकृतकार्यापि श्लाघत इति भावः । ततस्तन्मोहः क्रियते
 

 
लघुदीपिका ।
 

 
प्राणंसीत्प्रणाममकरोत् । बन्धक्याऽसत्या । 'पांसुला बन्धकी खैस्व- रिण्यसती पुंश्चली
त्वरी' । [ तावत् ] तावदेवेत्यर्थः । 'यावत्तावञ्च्च साकल्येऽवधौ मानेऽवधारणे' ।
समकुचन्मुकुलितानि । 'कुच निमीलने' । तमनुशय्य तेन सह शयित्वा 'तूतृ-
पाठा०-

 
[^
'महर्षि]G. 'महर्षिं मरीचिम्'.
[^
]G. 'तयाहमधिक्षिप्ता'.